Enter your Email Address to subscribe to our newsletters


लखनऊ, 05 सितंबरमासः (हि.स.)। भारतीयजनतापार्टी इति भाजपायाः राष्ट्रियमहासचिवः उत्तरप्रदेशप्रभारी च विनोदतावडे शनिवासरे लखनऊनगरं प्राप्तवान्। अत्र भाजपायाः प्रदेशकार्यालये माध्यमप्रतिनिधिभिः सह वार्तालापं कुर्वन् तावडे समाजवादीपार्टी इति सपा इत्यस्य पीडीए इति घोषवाक्यस्य नूतनं परिभाषां प्रदत्तवान्। तावडे अवदत् यत् सपायाः पीडीए इत्यस्य तात्पर्यम् परायाधनम् आप्तव्यम् इति अस्ति।
विनोदतावडे अवदत् यत् सपायाः पीडीए इत्यस्य घोषणां द्विसहस्रसप्तविंशतितमे वर्षे वयं विफलीकरिष्यामः। सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे विश्वस्य बृहत्तमः राजनैतिकदलः भाजपाऽस्ति। दलाध्यक्षस्य नितिननवीनस्य निर्देशानुसारं उत्तरप्रदेशे गृहमन्त्रिणः अमितशाहस्य उत्तरप्रदेशस्य विकासस्य गतिं वर्धयतः मुख्यमन्त्रिणः योगीआदित्यनाथस्य केन्द्रीयवित्तराज्यमन्त्रिणः प्रदेशाध्यक्षस्य च पङ्कजचौधरीस्य मार्गदर्शने आगामी विधानसभा निर्वाचनं राष्ट्रियजनतान्त्रिकगठबन्धनस्य कार्यकर्तारः शक्तिपूर्वकं योत्स्यन्ति विजयं च प्राप्स्यन्ति। ततः आगामी पञ्चवर्षाणि उत्तरप्रदेशस्य जनानां सेवायै स्वात्मानं समर्पयिष्यन्ति। अस्मिन् विषये वयं सर्वे प्रतिबद्धाः स्मः।
प्रदेशप्रभारी विनोदतावडे लखनऊनगरं प्राप्ते सति भाजपायाः प्रदेशाध्यक्षः पङ्कजचौधरी प्रदेशमहामन्त्रीसङ्गठनस्य धर्मपालसिंहः प्रदेशमहामन्त्री संजय रायः प्रदेशमुख्यालयप्रभारी गोविन्दनारायणशुक्लः इत्यादयः दलनेतारः चौधरीचरणसिंह अन्ताराष्ट्रियविमानपत्तने तस्य स्वागतं कृतवन्तः। ततः सः विधानसभामार्गे स्थितं भाजपायाः प्रदेशमुख्यालयं प्राप्तवान्। तत्र पूर्वमेव उपस्थितैः दलनेतृभिः तस्य स्वागतं कृतम्।
प्रदेशप्रभारीपदं प्राप्तस्य अनन्तरं विनोदतावडे प्रथमवारं लखनऊनगरम् आगतवान्। अपरत्र भाजपायाः नवनियुक्तः राष्ट्रियसचिवः भाजपायाः उत्तरप्रदेशस्य सहप्रभारी च जगदीशपटेलः शुक्रवासरादेव लखनऊमध्ये उपस्थितः अस्ति। उभयोः नेतृणां लखनऊनगरागमनं विधानसभानिर्वाचनस्य सिद्धताभिः सह सम्बद्धं दृष्ट्यते।
सूत्रेभ्यः प्राप्तसूचनानुसारं उभौ नेतारौ दलस्य पदाधिकारिभिः सह उपवेशनं कृत्वा आगामिनोऽभियानस्य सिद्धतायाः समीक्षां करिष्यतः। शनिवासरे विनोदतावडे भाजपायाः प्रदेशाध्यक्षेण पङ्कजचौधरिणा तथा प्रदेशमहामन्त्रीसङ्गठनस्य धर्मपालसिंहेन सह बैठकां कृतवान्। रविवासरे विनोदतावडे प्रदेशस्य मुख्यमन्त्रिणा योगिना आदित्यनाथेन सहापि मिलित्वा सङ्गठनात्मकविषयेषु चर्चां करिष्यति।
--------------
Hindusthan Samachar / Dheeraj Maithani