Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०५ सेप्टेम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मूः शनिवासरे अवदत् यत् गुणवत्तापूर्णशिक्षायाः बलेनैव विकसितभारतस्य निर्माणस्य लक्ष्यं प्राप्तुं शक्यते। सा अवदत् यत् संविधाने निहितानाम् अवसरसमानतायाः आदर्शानां कार्यरूपेण परिणमनस्य सर्वाधिकं प्रभावीमाध्यमं शिक्षा एव अस्ति तथा च एतत् सुनिश्चितं कर्तव्यं यत् देशे एकोऽपि विद्यार्थी उत्तमशिक्षायाः अधिकारात् वञ्चितः न भवेत्।
राष्ट्रपतिः शिक्षकदिवसस्य अवसरे नवदिल्ली इत्यत्र आयोजिते राष्ट्रिय-शिक्षकपुरस्कार-२०२६-समारोहे सम्बोधनं कुर्वती अवदत् यत् यः समाजः स्वकीयान् शिक्षकान् सम्मानयति, सः एव यथार्थरूपेण प्रगतिशीलः समाजः भवति। शिक्षाव्यवस्थायां शिक्षकाः प्राणवायोः सञ्चारं कुर्वन्ति तथा च स्वकीयेन स्नेहेन समर्पणेन च विद्यार्थिषु ज्ञानस्य, प्रेरणायाः, नैतिकतायाः, संवेदनशीलतायाश्च विकासं कुर्वन्ति।
राष्ट्रपतिः ओडिशाराज्यस्य रायरङ्गपुरे स्थिते श्रीअरविन्द-समग्रशिक्षाकेन्द्रे शिक्षितान् स्वकीयान् विद्यार्थिनः स्मृत्वा अवदत् यत् सा स्वविद्यार्थिभ्यः अपि बहु किमपि अधीतवती। विद्यार्थिभ्यः प्राप्तं प्रेम स्नेहं च सा स्वजीवनस्य महत्तमासु उपलब्धिषु अन्यतमम् इति अवर्णयत्।
राष्ट्रपतिः राष्ट्रियपुरस्कारं प्राप्तेषु शिक्षकेषु ग्रामीणक्षेत्रेषु स्थितानां विद्यालयानां शिक्षकाणां बहुसंख्यां दृष्ट्वा प्रसन्नतां प्रकटितवती। सा अवदत् यत् पुरस्कारविजेतॄणां शिक्षकाणां योगदानम् उपलब्धयश्च आधृत्य निर्मितानि लघुचलच्चित्राणि दृष्ट्वा तस्याः एषः विश्वासः अधिकं दृढः अभवत् यत् निष्ठावन्तः शिक्षकाः राष्ट्रनिर्मातारः अग्रपङ्क्तौ स्थिताः सन्ति।
राष्ट्रपतिः राजस्थानस्य झालावाडा-जनपदस्य एकस्मिन् ग्रामे कार्यरतस्य शिक्षकस्य उल्लेखं कुर्वती अवदत् यत् कथं सः आधुनिकमाध्यमानाम् उपयोगेन बालकेभ्यः जीवविज्ञानस्य शिक्षणं प्रभावशालि कृतवान्। सा एतत् आधुनिकशिक्षणपद्धतेः उत्कृष्टम् उदाहरणम् इति अवर्णयत्। सा अवदत् यत् प्रायः द्वादशवर्षेभ्यः पूर्वं देशे प्राथमिकस्तरे विद्यालयत्यागस्य दरः प्रायः ४.५ प्रतिशतं आसीत्, यः अधुना नगण्यः अभवत्। एषा उपलब्धिः शिक्षकाणां निरन्तरप्रयत्नैः सम्भविता अस्ति।
राष्ट्रपतिः अवदत् यत् देशः विकसितभारतस्य निर्माणस्य लक्ष्यस्य दिशि अग्रे गच्छति तथा च अस्य लक्ष्यस्य प्राप्तिः विश्वस्तरीयशिक्षाव्यवस्थायाः बलेनैव सम्भवति। सा अवदत् यत् अस्माकं प्रयासः भवेत् यत् देशस्य कोऽपि विद्यार्थी उत्तमशिक्षायाः अधिकारात् वञ्चितः न भवेत्।
समारोहे केन्द्रीयशिक्षामन्त्री प्रह्लादजोशी, राज्यमन्त्री जयन्तचौधरी, सुकान्त-मजूमदारः इत्यादयः अन्ये च गणमान्याः जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan