Enter your Email Address to subscribe to our newsletters

कोलकाता, ०५ सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दुअधिकारी शिक्षकदिवसस्य अवसरे भारतस्य पूर्वराष्ट्रपतये, महते दार्शनिकाय भारतरत्नेन सम्मानिताय च डॉ. सर्वपल्ली-राधाकृष्णनाय श्रद्धाञ्जलिम् अर्पितवान्। सः शनिवासरे प्रातः सामाजिकमाध्यमे सन्देशं प्रसार्य डॉ. राधाकृष्णनं नत्वा सर्वेषां शिक्षकाणां शिक्षिकाणां च प्रति सम्मानं कृतज्ञतां च प्रकटितवान्।
मुख्यमन्त्री शुभेन्दुअधिकारी स्वसन्देशे अवदत् यत् आदर्शः शिक्षकः केवलं पाठ्यपुस्तकेभ्यः ज्ञानं न ददाति, अपितु अन्धकारस्य मध्ये प्रकाशस्य मार्गं दर्शयति। सः विद्यार्थिभ्यः स्वप्नान् द्रष्टुं शिक्षयति तथा त्रुटिभ्यः शिक्षां गृहीत्वा अग्रे गन्तुं साहसं प्रददाति।
सः अवदत् यत् शिक्षकस्य प्रेम, अनुशासनम्, प्रेरणा आशीर्वादश्च आगामिकाले व्यक्तेः समाजस्य च निर्माणे महत्त्वपूर्णां भूमिकां निर्वहति। जीवने व्यक्तिः कियत् अपि उच्चतां प्राप्नुयात्, तस्य सफलतायाः पृष्ठे कस्यचित् शिक्षकस्य योगदानं नूनं भवति, तस्य च ऋणं कदापि परिशोधयितुं न शक्यते।
भारतस्य महान् दार्शनिकः राजनीतिज्ञश्च डॉ. सर्वपल्ली-राधाकृष्णनः १८८८ तमस्य वर्षस्य सेप्टेम्बरमासस्य पञ्चम्यां तिथौ अजायत। सः १९६२ तमात् वर्षात् १९६७ तमवर्षपर्यन्तं भारतस्य द्वितीयः राष्ट्रपतिः तथा १९५२ तमात् वर्षात् १९६२ तमवर्षपर्यन्तं भारतस्य प्रथमः उपराष्ट्रपतिः भूत्वा सेवाम् अकरोत्। शिक्षायाः दर्शनशास्त्रस्य च क्षेत्रे तस्य महत्त्वपूर्णं योगदानम् आसीत्। तस्य सम्मानार्थं प्रतिवर्षं सेप्टेम्बरमासस्य पञ्चम्यां तिथौ शिक्षकदिवसः आचर्यते।
मुख्यमन्त्रिणा शिक्षकदिवसस्य अवसरे जीवनाय दिशां प्रददत्सु सर्वेषु शिक्षकेषु शिक्षिकासु च अन्तःकरणपूर्वकं सम्मानः, कृतज्ञता प्रणामश्च प्रकटिताः तथा सर्वेभ्यः शिक्षकदिवसस्य शुभकामनाः प्रदत्ताः।
स्वसन्देशस्य अन्ते सः अवदत् यत् शिक्षकाः एव राष्ट्रस्य भविष्यस्य निर्माणस्य मौनवास्तुकाराः सन्ति।
Hindusthan Samachar / Divya Ranjan