शिक्षकदिवसे केन्द्रीयशिक्षाराज्यमन्त्रिणा देशस्य शिक्षकेभ्यः शुभकामनाः प्रदत्ताः
नवदिल्ली, ०५ सितम्बरमासः (हि.स.)। शिक्षकदिवसस्य अवसरे केन्द्रीयशिक्षा-राज्यमन्त्री तथा पश्चिमबङ्गालस्य बालूरघाट-लोकसभाक्षेत्रस्य सांसदः डॉ. सुकान्तमजूमदारः देशस्य सर्वेभ्यः शिक्षकेभ्यः हार्दिक्यः शुभकामनाः अयच्छत्। सः शिक्षकाणां समर्पणस्य तथा विद्य
सुकांत मजूमदार फाइल फोटो


नवदिल्ली, ०५ सितम्बरमासः (हि.स.)। शिक्षकदिवसस्य अवसरे केन्द्रीयशिक्षा-राज्यमन्त्री तथा पश्चिमबङ्गालस्य बालूरघाट-लोकसभाक्षेत्रस्य सांसदः डॉ. सुकान्तमजूमदारः देशस्य सर्वेभ्यः शिक्षकेभ्यः हार्दिक्यः शुभकामनाः अयच्छत्। सः शिक्षकाणां समर्पणस्य तथा विद्यार्थिनां भविष्यस्य निर्माणे तेषां योगदानस्य प्रशंसाम् अकरोत्।

डॉ. सुकान्तमजूमदारेण समाजमाध्यमे सन्देशः प्रकाशितः। सः उक्तवान् यत् शिक्षकस्य प्रभावः केवलं कक्षायाः पाठ्यपुस्तकानां च सीमासु न भवति। शिक्षकाः बालकेषु जिज्ञासां विकसितुं, तेषाम् आत्मविश्वासं वर्धयितुं तथा ज्ञानैः जीवनमूल्यैश्च तान् सशक्तान् कर्तुं कार्यं कुर्वन्ति।

सः उक्तवान् यत् शिक्षकाः एव युवावंशं भविष्यस्य उत्तरदायिनः नागरिकान् नेतृत्वकर्तॄंश्च भवितुं सज्जीकुर्वन्ति। तेषां योगदानात् न केवलं विद्यार्थिनां व्यक्तित्वस्य निर्माणं भवति, अपितु राष्ट्रस्य भविष्यस्य दिशाऽपि निर्धारिता भवति।

शिक्षाराज्यमन्त्रिणा शिक्षकाणां महत्त्वपूर्णं योगदानं रेखाङ्कयता उक्तं यत् विकसितभारत@२०४७ इति लक्ष्यस्य प्राप्तौ शिक्षकाणां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। तेषां मार्गदर्शनेन समर्पणेन च देशस्य युवाशक्तिं ज्ञानेन, कौशलेन तथा जीवनमूल्यैः सशक्तां कर्तुं शक्यते।

Hindusthan Samachar / Divya Ranjan