भारतस्य अभियानाय वैश्विकी मान्यता, 27 नवंबर दिनाङ्के बाल विवाहस्य विरुद्धोंऽताराष्ट्रियो दिवसो घोषितः
नवदिल्ली, 05 सितंबरमासः (हि.स.)। बालविवाहस्य विरुद्धं भारतस्य अभियानं वैश्विकमान्यतां प्राप्तवद् अस्ति। संयुक्तराष्ट्रसङ्घेन नवम्बरमासस्य सप्तविंशतितमं दिनं बालविवाहस्य अल्पवयस्कविवाहस्य बलात्कृतविवाहस्य च उन्मूलनाय अन्ताराष्ट्रियदिवसः इति घोषितम
सिएरा लियोन की प्रथम महिला डॉ. फातिमा मादा बायो


फोटो


नवदिल्ली, 05 सितंबरमासः (हि.स.)।

बालविवाहस्य विरुद्धं भारतस्य अभियानं वैश्विकमान्यतां प्राप्तवद् अस्ति। संयुक्तराष्ट्रसङ्घेन नवम्बरमासस्य सप्तविंशतितमं दिनं बालविवाहस्य अल्पवयस्कविवाहस्य बलात्कृतविवाहस्य च उन्मूलनाय अन्ताराष्ट्रियदिवसः इति घोषितम् अस्ति। भारताय एषा तिथिः विशेषमहत्त्वं वहति, यतः सप्तविंशतिनवम्बरमासे द्विसहस्रचतुर्विंशतितमे वर्षे केन्द्रसर्वकारेण बालविवाहमुक्तभारतं इति अभियानस्य शुभारम्भः कृतः आसीत्।

इयं पहलः जस्ट राइट्स फॉर चिल्ड्रेन इति संस्थायाः संस्थापकस्य भुवनऋभु इत्यस्य नेतृत्वे अग्रे प्रवर्धिता। मार्चमासे द्विसहस्रषड्विंशतितमे वर्षे संयुक्तराष्ट्रसङ्घे स्वीयसम्बोधने ऋभुणा बालविवाहस्य विरुद्धं समर्पितस्य अन्तर्राष्ट्रीयदिवसस्य घोषणायाः मागः उत्थापितः आसीत्। सिएरालियोनदेशस्य प्रथममहिला डा फातिमा मादा बायो इत्यस्याः अपि अस्याः पहलस्य समर्थनं कृतम् आसीत्।

तदनन्तरं सिएरालियोनदेशेन भारतसहितानां सप्तषष्टिदेशानां समर्थनयुक्तः प्रस्तावः संयुक्तराष्ट्रमहासभायां प्रस्तुतः। प्रस्तावे नवम्बरमासस्य सप्तविंशतितमं दिनं बालविवाहस्य समाप्तये समर्पितः अन्ताराष्ट्रियदिवसः इति घोषितुं अनुरोधः कृतः आसीत्। संयुक्तराष्ट्रसङ्घेन सितम्बरमासस्य चतुर्थे दिने प्रस्तावः पारितः।

प्रस्तावस्य पारितावसरे संयुक्तराष्ट्रसङ्घे उपस्थितेषु भुवनऋभुः नागरिकसमाजसङ्गठनानां पक्षतः एकमात्रः प्रतिनिधिः आसीत्। सः अस्य घोषणायाः स्वागतं कुर्वन् अवदत् यत् बालसंरक्षणस्य क्षेत्रे भारतस्य पहलः अधुना वैश्विकाभियानस्य रूपं धारयति। ऋभुणा उक्तं यत् नवम्बरमासस्य सप्तविंशतितमे दिने द्विसहस्रचतुर्विंशतितमे वर्षे बालविवाहमुक्तभारतं इत्यभियानस्य अन्तर्गतं पञ्चविंशत्यधिककोटिजनैः बालविवाहस्य विरुद्धं शपथः गृहीतः आसीत्।

सः बालानां समुदायानां धर्मगुरूणां सहयोगिसङ्गठनानां च प्रयत्नानां प्रशंसां कृत्वा मोदीसर्वकारस्य महिलाबालविकासमन्त्रिण्याः अन्नपूर्णादेव्याः च प्रति कृतज्ञतां प्रकटितवान्। सः विश्वस्य सर्वेभ्यः सर्वकारेभ्यः द्विसहस्रत्रिंशत् तमवर्षपर्यन्तं बालविवाहस्य समाप्तये निर्णायकपदानि स्वीकर्तुं तथा प्रत्येकस्य बालकस्य शिक्षां सुरक्षां विकासं च सुनिश्चितं कर्तुम् आह्वानं कृतवान्।

राष्ट्रीयपरिवारस्वास्थ्यसर्वेक्षणस्य पञ्चमचरणस्य द्विसहस्रैकोनविंशतितः द्विसहस्रैकविंशतितमवर्षपर्यन्तस्य आँकडानुसारं भारतस्य अष्टादशवर्षात् न्यूनवयस्कानां कन्यानां विवाहस्य अनुपातः त्रयोविंशतिः दशमलव त्रिशतांशः आसीत्। राष्ट्रीयपरिवारस्वास्थ्यसर्वेक्षणस्य षष्ठचरणे द्विसहस्रत्रयोविंशतितः द्विसहस्रचतुर्विंशतितमवर्षपर्यन्ते एषः अनुपातः विंशतिः दशमलव एकप्रतिशतं यावत् न्यूनः अभवत्। केन्द्रसर्वकारेण द्विसहस्रषड्विंशतितमवर्षपर्यन्तं बालविवाहस्य दरं दशप्रतिशतपर्यन्तं नेतुं लक्ष्यं निर्धारितम् अस्ति।

बालविवाहस्य वैश्विकसमाप्तये प्रतिबद्धता सततविकासलक्ष्यस्य पञ्चमस्य लक्ष्यस्य तृतीयस्य उपलक्ष्यस्य अनुरूपा अस्ति। अस्मिन् बालविवाहस्य अल्पवयस्कविवाहस्य बलात्कृतविवाहस्य च हानिकरप्रथानां उन्मूलनस्य लक्ष्यं निर्धारितम् अस्ति।

भारतस्य बालविवाहमुक्तभारतं इत्यभियानात् प्रेरणां प्राप्य दिसम्बरमासे द्विसहस्रचतुर्विंशतितमे वर्षे बालविवाहमुक्तनेपालम् इत्यभियानस्य शुभारम्भः कृतः। जेआरसी संस्थायाः दावानुसारम् इदं अभियानं नवतिनवाधिकदेशेषु प्रापितम् अस्ति तथा पञ्चविंशत्यधिककोटिजनैः स्वस्वदेशेषु बालविवाहस्य समाप्तये शपथः गृहीतः अस्ति।

जेआरसी संस्थायाः अनुसारं भारते तस्याः सहयोगिसङ्गठनैः पञ्चलक्षाधिकानां पञ्चाशत्सहस्राणां बालविवाहानां निरोधने सहायता कृता अस्ति। सङ्गठनं द्विसप्तत्यधिकसप्तशतजिल्हेषु सर्वकारैः विधिप्रवर्तनसंस्थाभिः विद्यालयैः पंचायतैः महिलाभिः धर्मगुरुभिः समुदायैश्च सह मिलित्वा बालविवाहस्य निवारणाय कार्यं कुर्वत् अस्ति।

--------------

Hindusthan Samachar / Dheeraj Maithani