बांदा: पुलिसलाइनमध्ये भक्त्युल्लासाभ्यां सह समाचरितः श्रीकृष्ण जन्मोत्सवो, विलंबेन रात्रिपर्यन्तं चलिताःसांस्कृतिक प्रस्तुतयः
बांदा, 05 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य बांदाजनपदस्यपुलिसलाइनक्षेत्रे भगवतश्श्रीकृष्णस्य जन्मोत्सवस्य पावनं पर्व श्रद्धाभक्तिभावेन हर्षोल्लासेन च भव्यरूपेण समाचरितम्। धार्मिकसांस्कृतिककार्यक्रमैः समलङ्कृते अस्मिन् आयोजने वरिष्ठपुलिसाधिकारिभि
सांस्कृतिक कार्यक्रम


बांदा, 05 सितंबरमासः (हि.स.)।

उत्तरप्रदेशस्य बांदाजनपदस्यपुलिसलाइनक्षेत्रे भगवतश्श्रीकृष्णस्य जन्मोत्सवस्य पावनं पर्व श्रद्धाभक्तिभावेन हर्षोल्लासेन च भव्यरूपेण समाचरितम्। धार्मिकसांस्कृतिककार्यक्रमैः समलङ्कृते अस्मिन् आयोजने वरिष्ठपुलिसाधिकारिभिः प्रशासनिकाधिकारिभिः न्यायिकाधिकारिभिः जनप्रतिनिधिभिः पुलिसपरिवारस्य सदस्यैः च उत्साहपूर्वकं सहभागिता कृता। श्रीकृष्णजन्मोत्सवस्य अवसरे शुक्रवासरे पुलिसलाइनपरिसरं आकर्षकरूपेण सज्जीकृतम् आसीत्। कार्यक्रमे चित्रकूटधामपरिक्षेत्रस्य बांदाजनपदस्य पुलिसोपमहानिरीक्षकः राजेश एस जिलाधिकारी अमित आसेरी जिला सत्रन्यायाधीशा अल्पना पुलिसाधीक्षकः पलाश बंसल अपरपुलिसाधीक्षकः शिवराजः सहिताः सर्वे क्षेत्राधिकारिणः उपस्थिताः आसन्। सदरविधानसभाक्षेत्रस्य विधायकः प्रकाशद्विवेदी सहिताः अन्ये जनप्रतिनिधयः सम्भ्रान्तनागरकाश्च अपि कार्यक्रमे भागं गृहीतवन्तः। वरिष्ठाधिकारिभिः भगवान् श्रीकृष्णस्य विधिवत् पूजाऽर्चना कृत्वा जनपदवासिनां पुलिसपरिवारस्य च सुखसमृद्धिमङ्गलस्य कामना कृता। अस्मिन् अवसरे उपस्थितेभ्यः पुलिसपरिवारस्य सदस्येभ्यः जन्माष्टमीपर्वणः शुभकामनाः अपि प्रदत्ताः। कार्यक्रमस्य मुख्याकर्षणं बालकानां बालिकानां च मनोहारिण्यः सांस्कृतिकप्रस्तुतयः आसन्। बालिकाभिः नृत्यसांस्कृतिककार्यक्रमैः भगवान् श्रीकृष्णस्य लीलानां भारतीयसंस्कृतेः च सुन्दरं दर्शनं प्रस्तुतम्। देररात्रिपर्यन्तं प्रवृत्ताभिः भव्यप्रस्तुतिभिः उपस्थितानांपुलिसलाइनक्षेत्रस्य अतिथीनां दर्शकानां च मनः आकृष्टम्। सम्पूर्णं परिसरं करताडनध्वनिभिः गुञ्जितम्। अस्मिन् अवसरे नृत्यप्रतियोगितायां प्रतिभागं कृतवतीनां बालिकानां प्रतिभायाः उत्साहस्य उत्कृष्टप्रदर्शनस्य च वरिष्ठाधिकारिभिः अतिथिभिश्च प्रशंसा कृता। प्रतिभागिनीभ्यः बालिकाभ्यः प्रशंसाप्रमाणपत्राणि प्रदाय सम्मानं प्रोत्साहनं च प्रदत्तम्। कार्यक्रमस्य सफलायोजने अतिथिभिः पुलिसपरिवारस्य सदस्यैश्च आयोजनसम्बद्धानां पुलिसाधिकारिणां कर्मचारिणां च प्रशंसा कृता। धार्मिकश्रद्धायाः भारतीयसंस्कृतेः पारिवारिकसौहार्दस्य च सुन्दरसमन्वयरूपेण पुलिसलाइनक्षेत्रस्य बांदायाः श्रीकृष्णजन्मोत्सवसमारोहः गरिमामये वातावरणे सम्पन्नः। उक्तां सूचनाम् अपरपुलिसाधिकारिणा शिवराजेन शनिवासरे प्रदत्ता।

---------------

Hindusthan Samachar / Dheeraj Maithani