आधुनिकशिक्षया नवाचारैश्च शिक्षकाः नववंशस्य भविष्यं निर्मान्ति - मुख्यमन्त्री योगी आदित्यनाथः
लखनऊ, ०५ सेप्टेम्बरमासः (हि.स.)। शिक्षकदिवसस्य अवसरे मुख्यमन्त्री योगी आदित्यनाथः प्रदेशस्य सर्वेभ्यः शिक्षकेभ्यः गुरुजनेभ्यश्च शुभकामनाः प्रदत्तवान्। मुख्यमन्त्री शनिवासरे स्वस्य इन्स्टाग्राम-लेखे स्वचित्रितं चलच्चित्रं प्रसारयन् उत्तरप्रदेशस्य प्
मुख्यमंत्री


लखनऊ, ०५ सेप्टेम्बरमासः (हि.स.)। शिक्षकदिवसस्य अवसरे मुख्यमन्त्री योगी आदित्यनाथः प्रदेशस्य सर्वेभ्यः शिक्षकेभ्यः गुरुजनेभ्यश्च शुभकामनाः प्रदत्तवान्। मुख्यमन्त्री शनिवासरे स्वस्य इन्स्टाग्राम-लेखे स्वचित्रितं चलच्चित्रं प्रसारयन् उत्तरप्रदेशस्य प्राचीनां ज्ञानपरम्परां स्मृत्वा आधुनिकशिक्षाव्यवस्थायां शिक्षकाणां भूमिकां महत्त्वपूर्णां प्रतिपादितवान्।

मुख्यमन्त्री योगी आदित्यनाथः निर्गते सन्देशे अवदत् यत् प्रदेशस्य विशिष्टां ज्ञानपरम्पराम् आधुनिकस्वरूपेण नववंशं प्रति प्रसारयन्तेभ्यः सर्वेभ्यः गुरुजनेभ्यः शिक्षकेभ्यश्च सः शिक्षकदिवसस्य हार्दिक्य: शुभकामनाः प्रददाति।

उत्तरप्रदेशः प्राचीनकालादेव ज्ञानस्य, साधनायाः संस्काराणां च पावनभूमिः अस्ति। काशीनगरेण विश्वाय ज्ञानस्य प्रकाशः प्रदत्तः, यदा तु सारनाथे भगवान् बुद्धः स्वस्य प्रथमोपदेशं दत्तवान्। अयोध्या, मथुरा-वृन्दावनं प्रयागराजश्च सनातनज्ञानपरम्परायाः प्रमुखकेन्द्राणि अपि अभवन्।

मुख्यमन्त्री शुकतीर्थस्य नैमिषारण्यस्य च ज्ञानपरम्परायाः उल्लेखमपि कृतवान्। सः अवदत् यत् प्रायः पञ्चसहस्रवर्षेभ्यः पूर्वं शुकतीर्थे महर्षिणा शुकदेवेन श्रीमद्भागवतमहापुराणस्य प्रथमं वाचनं कृतम् आसीत्। तत्रैव नैमिषारण्ये अष्टाशीतिसहस्राणां ऋषीणां साधनया भारतीयज्ञानपरम्परा समृद्धा अभवत्। अस्याः एव भूमेः आयुर्वेदस्य, अध्यात्मस्य, दर्शनस्य भारतीयज्ञानविज्ञानस्य च महान् परम्पराः विकसिताः।

योगी आदित्यनाथः अवदत् यत् अद्य प्रदेशस्य शिक्षकाः अस्याः गौरवशालिन्याः ज्ञानपरम्परायाः आधुनिकशिक्षया, प्रौद्योगिक्या नवाचारैश्च सह समन्वयं कृत्वा नववंशस्य भविष्यं निर्मान्ति। सः शिक्षकाणाम् अभिनन्दनं कुर्वन् तेभ्यः मङ्गलमयाः शुभकामनाः अयच्छत्।

Hindusthan Samachar / Divya Ranjan