गोरक्षपीठे मुख्यमन्त्रिणा योगिना गोपालस्य प्राकट्योत्सवः आचरितः
गोरखपुरम्, ०५ सेप्टेम्बरमासः (हि.स.)। भक्तेः प्रेम्णः धर्मस्य च शाश्वतप्रकाशरूपस्य गोपालस्य, जगत्पालकस्य, पूर्णपरब्रह्मणः भगवत: श्रीकृष्णस्य प्राकट्योत्सवस्य पावनं पर्व श्रीकृष्णजन्माष्टमी शिवा-वतारस्य महायोगिनः गोरखनाथस्य साधनास्थले गोरखनाथमन्दिरे
गोरखनाथ मंदिर में गूंजा ‘नंद घर आनंद भयो’ गोरक्षपीठाधीश्वर एवं मुख्यमंत्री योगी आदित्यनाथ ने मध्यरात्रि गर्भगृह में विधि-विधान से श्रीकृष्ण जन्मोत्सव मनाया और लड्डू गोपाल को पालने में झुलाकर आरती उतारी।

गोरखपुरम्, ०५ सेप्टेम्बरमासः (हि.स.)। भक्तेः प्रेम्णः धर्मस्य च शाश्वतप्रकाशरूपस्य गोपालस्य, जगत्पालकस्य, पूर्णपरब्रह्मणः भगवत: श्रीकृष्णस्य प्राकट्योत्सवस्य पावनं पर्व श्रीकृष्णजन्माष्टमी शिवा-वतारस्य महायोगिनः गोरखनाथस्य साधनास्थले गोरखनाथमन्दिरे पार-म्परिकश्रद्धया भव्यतया हर्षोल्लासेन च आचरितम्। गोरक्षपीठस्य अस्य पारम्परिककार्यक्रमस्य नेतृत्वं कर्तुं गोरक्षपीठाधीश्वरः मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरस्य रात्रौ लखनऊतः गोरखपुरम् आगतवान्।

श्रीकृष्णजन्माष्टम्याः पावने पर्वणि गोरक्षपीठाधीश्वरः मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरस्य प्रातःकालात् मध्यरात्रिपर्यन्तं मथुरातः लखनऊतः गोरखपुरपर्यन्तं सर्वेषां योगिनां परमेश्वररूपेण मन्यमानस्य योगेश्वरस्य श्रीकृष्णस्य आराधनायां निमग्नः आसीत्। प्रातः सः भगवत: श्रीकृष्णस्य जन्मभूमौ मथुरायां स्थिते जन्मभूमिमन्दिरे विधिविधानपूर्वकं कान्हस्य पूजार्चनां कृत्वा प्रदेशवासिनां सुखमयजीवनाय प्रार्थितवान्। सायंकाले सः लखनऊस्य पुलिस-लाइन-परिसरे आयोजिते श्रीकृष्णजन्माष्टमीसमारोहे सम्मिलितः, ततः रात्रौ गोरखनाथमन्दिरं प्राप्य पारम्परिके श्रीकृष्णजन्मोत्सवसमारोहे प्रभोः प्राकट्यानुष्ठानं सम्पादितवान्।

गोरखनाथमन्दिरं प्राप्य मुख्यमन्त्री योगी आदित्यनाथः सर्वप्रथमं शिवावतारस्य महायोगिनः गुरोः गोरखनाथस्य दर्शनं पूजार्चनां च कृतवान्। ततः सः स्वगुरुदेवस्य ब्रह्मलीनस्य महन्तस्य अवेद्यनाथस्य समाधौ नतमस्तकः भूत्वा पुष्पार्चनां कृत्वा तस्य आशीर्वादं प्राप्तवान्। गोरखनाथमन्दिरे श्रीकृष्णजन्मोत्सवस्य पावनावसरे महन्तदिग्विजयनाथ-स्मृतिभवने सभागारे च भजनसन्ध्यायाः आयोजनं कृतम्। मुख्यमन्त्री तत्र आगत्य सुमधुराणां भजनानाम् आनन्दम् अनुभूय राधाकृष्णरूपधारिणः बालकान् स्नेहेन आलिङ्ग्य तेभ्यः उपहारान् ददत्।

गोरक्षपीठाधीश्वरेण मध्यरात्रौ गोरखनाथ-मन्दिरस्य गर्भगृहे श्रीकृष्णजन्मोत्सवस्य निमित्तं विधिविधानपूर्वकं विशिष्टपूजार्चना कृता। रात्रौ द्वादशवादने भगवान् श्रीकृष्णस्य प्राकट्यानन्तरं ‘नन्दगृहे आनन्दोऽभवत्, जय कन्हैयालाल की’ तथा ‘श्रीकृष्णगोविन्द हरे मुरारे, हे नाथ नारायण वासुदेव’ इत्येतयोः मङ्गलधुन्योः, सोहरगीतानां घण्टाघडियालानां च ध्वनिमध्ये गोरक्षपीठाधीश्वरः तं स्वाङ्के निधाय गर्भगृहात् बहिरागतवान्। योगिना प्रभोः श्रीहरेः बालरूपं ‘लड्डूगोपालम्’ पुष्पैः सुसज्जिते पालने उपवेश्य श्रद्धाभावेन दोलितम् तथा आरार्तिकी च कृता। भगवत: श्रीकृष्णस्य प्राकट्यानुष्ठानस्य समाप्त्य-नन्तरं मन्दिरस्य पक्षतः श्रद्धालुभ्यः फलाहारः प्रसादश्च वितरितः।

गोरखनाथमन्दिरे श्रीकृष्णजन्मोत्सवः पारम्परिकरूपेण सोत्साहेन आचर्यते। अस्मिन् अवसरे मन्दिरस्य महन्त-दिग्विजयनाथस्मृतिसभागारे भजन-सन्ध्याकार्यक्रमः सुप्रसिद्धलोकगायकस्य डॉ. राकेशश्रीवास्तवस्य संयोजनेन सायंकालादेव प्रचलितः आसीत्। अपरतः श्रीकृष्णजन्माष्टम्याः मुख्यधार्मिकानुष्ठानं मन्दिरस्य गर्भगृहे रात्रौ सार्धैकादश-वादनात् आरब्धम् तथा मध्यरात्रौ भगवान् श्रीकृष्णस्य जन्मानन्तरं मङ्गलगानैः प्रसादवितरणेन च सम्पन्नम्। अस्मिन् अवसरे प्रदेशसर्वकारस्य मूलशिक्षा-राज्यमन्त्री (स्वतन्त्रप्रभारः) सन्दीपसिंहः, महापौरः डॉ. मङ्गलेशश्रीवास्तवः, भाजपायाः प्रदेशो-पाध्यक्षः विधान-परिषद्सदस्यश्च डॉ. धर्मेन्द्रसिंहः, विधायकः फतेहबहादुरसिंहः, अनेकाः साधुसन्तः बहुसंख्याकाश्च श्रद्धालवः उपस्थिताः आसन्। मध्यरात्रि-पर्यन्तं मन्दिरपरिसरः श्रद्धालुभिः पूर्णः आसीत्।

राधाकृष्णरूपधारिणः बालकान् प्राप्तं मुख्यमन्त्रिणः योगिनः स्नेहं उपहाराश्च

श्रीकृष्णजन्मोत्सवसमारोहे मुख्यमन्त्री योगी आदित्यनाथः महन्तदिग्विजय-नाथस्मृतिसभागारे भजनकीर्तनस्य मध्ये श्रीकृष्णरूपसज्जास्पर्धायां राधारूपेण कृष्णरूपेण च सज्जितेभ्यः बालकेभ्यः प्रचुरं स्नेहम् अददात्। सः तैः सह हास्यविनोदं कृत्वा तेभ्यः क्रीडनकानि चॉकलेट्-फलानि च उपहाररूपेण अददात्। अस्मिन् क्रमे अनेकान् बालकान् स्वाङ्के निधाय सः दीर्घकालं तान् क्रीडयन् स्नेहेन प्रेम च कृतवान्। केचन बालकाः योगिने दोहान् श्लोकांश्च अश्रावयन्, केचन तेन सह स्वचित्राणि अगृह्णन्। मुख्यमन्त्री सर्वेषां बालकानां अनुरोधान् पूरयन् आसीत्।

बालरूपसज्जा नयनाभिरामा

भगवत: श्रीकृष्णस्य जन्मोत्सवस्य अवसरे गोरखनाथमन्दिरस्य ब्रह्मलीनमहन्त-दिग्विजयनाथस्मृतिभवने सभागारे आयोजितायां श्रीकृष्णबाल-रूपसज्जा-स्पर्धायां सज्जिताः बालकाः जनानां मनांसि आह्लादितवन्तः। दिग्विजयनाथ-स्मृतिभवने आयोजिता बालरूप-सज्जास्पर्धा श्रीकृष्णरूपधारिभिः राधारूप-धारिभिश्च बालकैः शोभिता आसीत्। एतेषां बालकानां वेशभूषया रूपेण च सभागारः क्षणमात्रेण गोकुलस्य अनुभवं कारयति स्म। द्वयोः वर्गयोः आयोजिता अस्यां स्पर्धायां सम्मिलिताः सर्वे बालकाः कार्यक्रमस्य आकर्षणं वर्धयन्ति स्म। बालरूपसज्जास्पर्धायाः कान्हावर्गे प्रथम-पुरस्कारः शर्विलपाण्डेयाय, द्वितीय-पुरस्कारः सौम्याप्रजापत्यै, तृतीयपुरस्कारः हिमांशिश्रीवास्तवाय प्रदत्तः। गोपालवर्गे प्रथमपुरस्कारः सार्थकाय, द्वितीयः राजवीराय, तृतीयपुरस्कारः रुद्राय प्राप्तः। श्रीकृष्णरूपसज्जायां विजेतृभ्यः मुख्यमन्त्रिणा प्रशस्तिपत्राणि उपहाराश्च प्रदाय पुरस्काराः वितरिताः। निर्णायकत्वेन सारिकारायः, मनीषासिंहः हृदयात्रिपाठी च कार्यं कृतवत्यः, कार्यक्रमस्य सञ्चालनं शिवेन्द्रपाण्डेयेन कृतम्।

भजनेषु गुञ्जितः ‘जय कान्हा-श्याम’ इति जयघोषः

श्रीकृष्णजन्माष्टम्याः अवसरे दिग्विजय-नाथस्मृतिभवने डॉ. राकेशश्रीवास्तवस्य संयोजनेन आयोजितायां भजनसन्ध्यायां कान्हा-श्यामस्य आराधनायाः स्वरः गुञ्जितः। कार्यक्रमस्य शुभारम्भः पुनीतश्रीवास्तवेन सुमधुरेण भक्तिगीतेन कृतः। ततः हृदयात्रिपाठिना अनितासिंहेन च सोहरगीतस्य, लक्ष्मीगुप्तया च बधाईगीतस्य कर्णप्रियप्रस्तुतिः कृता। गायकौ उमेशमिश्रः एकताशुक्ला च कृष्णभजनानि श्रावयित्वा सर्वान् भावविभोरान् अकरोताम्। डॉ. राकेश-श्रीवास्तवेन पारम्परिक-शुभ-कामना-गीतस्य सोहरगीतस्य च गायनेन वातावरणम् उल्लासपूर्णं कृतम्। वाद्ययन्त्रेषु श्यामसुन्दरलालश्रीवास्तवः ‘हंसलोना’, दीपकः, आभासपाठकः सुधाकरसिन्हा च सङ्गतिं कृतवन्तः।

गर्भगृहे हनुमत्सङ्गीताश्रमेण भजनसन्ध्या आयोजिता

श्रीकृष्णजन्मोत्सवस्य पावनावसरे गोरख-नाथमन्दिरस्य गर्भगृहे हनुमत्सङ्गी-ताश्रमसेवासंस्थायाः पक्षतः रात्रौ अष्टवादनतः द्वादशवादनपर्यन्तं भजनानां प्रस्तुति: कृता। जन्मोत्सवात् पूर्वं गर्भगृहे भजनानां श्रवणं मुख्यमन्त्री योगी आदित्यनाथः अपि कृतवान्। कार्यक्रमस्य प्रारम्भः गायकस्य सङ्गीतकारस्य च अभिषेकपाण्डेयस्य ‘बिट्टू’ इत्यस्य भजनैः अभवत्। ततः सिद्धिसिंहः, निशान्तशुक्लः, श्रेयांशतेजस्वी, ओमसिंहः, हृदयांश-श्रीवास्तवः, अपूर्वनमनः, आकाङ्क्षात्रिपाठी, प्रीतिअग्रहरिः अलकाजायसवालश्च स्व-भजनप्रस्तुतिभिः जनान् आनन्देन नर्तितवन्तः। कार्यक्रमस्य संयोजनं धर्मेन्द्रकुमारश्रीवास्तवेन, सङ्गीतनिर्देशनं च अभिषेकपाण्डेयेन ‘बिट्टू’ इत्यनेन कृतम्। वाद्ययन्त्रेषु अजीतराजः, शैलेशदुबे रुद्राक्षशुक्लश्च सङ्गतिं कृतवन्तः।

Hindusthan Samachar / Divya Ranjan