श्रीकाशीविश्वनाथधामस्य गर्भगृहे श्रीविश्वेश्वरेण सह लड्डूगोपालः विराजितः, एकस्मिन् काले दर्शनं प्राप्य श्रद्धालवः प्रसन्नाः
— ‘हरस्य धाम्नि हरेः अद्भुतच्छटा’, काशीपुराधिपतेः सह लड्डूगोपालस्य दर्शनार्थम् आगताः श्रद्धालवः, प्रभातस्य मङ्गलारार्तिक्याम् अविस्मरणीयः पुण्यदायी च क्षणः वाराणसी, ०५ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरे काश्यां शनिवासरे प्रभाते श्रीका
aa9b9fe42c1b3d5fb002722f8944c393_1166790603.jpg


51ac8d2dccfb1a9069ca5c438972b1db_890697352.jpg


— ‘हरस्य धाम्नि हरेः अद्भुतच्छटा’, काशीपुराधिपतेः सह लड्डूगोपालस्य दर्शनार्थम् आगताः श्रद्धालवः, प्रभातस्य मङ्गलारार्तिक्याम् अविस्मरणीयः पुण्यदायी च क्षणः

वाराणसी, ०५ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरे काश्यां शनिवासरे प्रभाते श्रीकाशीविश्वनाथधाम्नः गर्भगृहे श्रद्धालूनां कृते अविस्मरणीयः पुण्यदायी च क्षणः दृश्यते स्म। प्रातःकाले गर्भगृहे बाबामहादेवस्य मङ्गला-रार्तिक्याः9 मध्ये श्रीविश्वेश्वरस्य दिव्यस्वरूपेण सह लड्डूगोपालः अपि भक्तेभ्यः एकस्मिन् काले दर्शनं प्रदत्तवान्। बाबा विश्वनाथस्य लड्डूगोपालस्य च एकसाथं दर्शनं प्राप्य भक्तानां मनांसि श्रद्धया, भक्त्या आनन्देन च अभिभूतानि अभवन्।

धाम्नि हर्षोल्लासेन समारोहपूर्वकं च आचरितस्य श्रीकृष्णजन्माष्टमी-महोत्स-वस्य अनन्तरं प्रातःकाले भगवतः श्रीकाशीविश्वनाथस्य मङ्गलारार्तिक्याः पावने अवसरे श्रीविश्वेश्वरस्य दिव्यस्वरूपेण सह लड्डूगोपालस्य विग्रहोऽपि गर्भगृहे विराजितः। अस्य अलौकिकस्य दृश्यस्य साक्षिणः भवितुं श्रद्धालवः प्रभाते त्रिवादनात् एव मन्दिरं प्राप्तुम् आरब्धवन्तः।

मन्दिरन्यासस्य अनुसारम् एषः अवसरः भक्तानां कृते श्रद्धायाः, प्रेम्णः आध्यात्मिकानन्दस्य च अद्वितीयः अवसरः अभवत्। श्रीविश्वेश्वरस्य अनुग्रहेण कन्हैया इत्यस्य अनुरागेण च सर्वे सनातन-धर्मावलम्बिनः श्रद्धालवः निरन्तरं समृद्धाः भवन्तु, तेषां जीवनं सुखेन, शान्त्या, श्रद्धया भक्त्या च परिपूर्णं भवतु तथा सनातनसंस्कृतिः आध्यात्मिकचेतना च निरन्तरं सुदृढा भवतु इति मङ्गलकामना मन्दिरे कृता।

श्रीकाशीविश्वनाथधाम शुक्रवासरस्य विलम्बितरात्रौ भगवतः श्रीकृष्णस्य भक्त्या दिव्यप्रभया च आलोकितः अभवत्। श्रीकृष्णजन्माष्टम्याः पावने अवसरे श्रीकाशीविश्वनाथधामे भगवतः श्रीकृष्णस्य जन्मोत्सवः अत्यन्तं श्रद्धया, उल्लासेन पारम्परिकधार्मिकविधिविधानैश्च आचरितः। जन्माष्टम्याः अवसरे मध्यरात्रौ द्वादशवादने भगवतः श्रीकृष्णस्य जन्मोत्सवस्य आयोजनं कृतम्। अस्मिन् समये मन्दिरपरिसरे वैदिकमन्त्राणां घोषः, शङ्खनादः, ‘जय श्रीकृष्ण’ इति ‘हर हर महादेव’ इति च जयघोषैः वातावरणं भक्तिमयं जातम्।

भगवतः श्रीलड्डूगोपालस्य जन्मोत्सवा-नन्तरं मन्दिरन्यासस्य शास्त्रिभिः विधिवत् पूजनार्चनम् अभिषेकश्च सम्पन्नौ। अस्मिन् अवसरे भगवतः श्रीलड्डूगोपालस्य दक्षिणावर्तशङ्खेन अभिषेकः, पञ्चामृता-भिषेकः तथा षोडशोपचारपूजनं वैदिक-परम्परानुसारं सम्पन्नम्। भगवान् नवीनवस्त्रैः आकर्षकशृङ्गारेण च सुसज्जितः कृत्वा विशेषारारत्कीं नैवेद्यं च समर्पितम्। श्रद्धालवः भगवतः श्रीकृष्णस्य बालस्वरूपस्य दर्शनं कृत्वा स्वजीवनं धन्यं मन्यन्ते स्म।

हरस्य धाम्नि हरेः अद्भुतं समन्वयरूपम्

देवाधिदेवस्य महादेवस्य धाम्नि भगवतः श्रीकृष्णस्य जन्मोत्सवस्य एतत् दिव्यम् आयोजनं सनातनसंस्कृतेः तस्याः अद्भुतायाः समन्वयपरम्परायाः प्रतीकम् अभवत्, यस्यां हरस्य धाम्नि हरेः आराधना अलौकिकीम् आध्यात्मिकानुभूतिं प्रददाति। काशीविश्वनाथधामे महादेवस्य आरा-धनायाः मध्ये भगवतः श्रीकृष्णस्य बालस्वरूपस्य मनोहारिणी छटा श्रद्धालूनां मनांसि भावविभोराणि अकरोत्।

भगवान् श्रीलड्डूगोपालस्य विशेषपूजनस्य अभिषेकस्य च दर्शनस्य पुण्यावसरः श्रद्धालुभ्यः प्राप्तः। मन्दिरपरिसरे उत्सवस्य वातावरणं दीर्घकालं यावत् विद्यमानम् आसीत् तथा श्रद्धालवः भक्त्या श्रद्धया च भगवतः श्रीकृष्णस्य जन्मोत्सवे सहभागितां कृतवन्तः।

Hindusthan Samachar / Divya Ranjan