Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 05 सितंबरमासः (हि.स.)।शिक्षकदिवसस्य अवसरे शनिवासरे राज्यपालः लेफ्टिनेन्ट-जनरल गुरमीतसिंहः (सेवानिवृत्तः) तथा मुख्यमन्त्री पुष्करसिंहधामी प्रदेशवासिभ्यः शिक्षकेभ्यश्च शुभकामनाः प्रदाय महान् शिक्षाविदं पूर्वराष्ट्रपतिं भारतरत्नं डॉ. सर्वपल्ली-राधाकृष्णन्-महोदयं नत्वा स्मृतवन्तौ।
राज्यपालः उक्तवान् यत् शिक्षकाः समाजस्य राष्ट्रस्य च निर्माणस्य आधारशिलाः सन्ति। शिक्षकाः विद्यार्थिभ्यः केवलं ज्ञानमेव न प्रददति, अपितु तेषु संस्कारान्, अनुशासनम्, नैतिकमूल्यानि दायित्वबुद्धिं च विकसितवन्ति। विद्यार्थिनां व्यक्तित्वनिर्माणे तेषां जीवनाय सम्यग्दिशाप्रदाने च शिक्षकाणां महत्त्वपूर्णा भूमिका अस्ति।
सः उक्तवान् यत् परिवर्तमानकाले शिक्षकाणां भूमिका अधिकमहत्त्वपूर्णा अभवति। शिक्षां नवाचारैः, प्रौद्योगिक्या, कौशलेन संस्कारैश्च संयोज्य विद्यार्थिनः भविष्यस्य आव्हानानां कृते सज्जीकर्तुम् आवश्यकम् अस्ति। सः प्रदेशस्य शिक्षकेभ्यः स्वस्थस्य, सुखमयस्य उज्ज्वलस्य च भविष्यस्य कामनां कृतवान्।
मुख्यमन्त्री पुष्करसिंहधामी मुख्यमन्त्रिनिवासे डॉ. सर्वपल्ली-राधाकृष्णन्-महोदयस्य चित्रे पुष्पाणि समर्प्य तस्य स्मरणं कृतवान्। सः उक्तवान् यत् डॉ. राधाकृष्णन्-महोदयस्य जीवनम् भारतीयशिक्षायाः, संस्कृतेः, मानवीयमूल्यानां च प्रेरणास्रोतः अस्ति। तस्य व्यक्तित्वं कृतित्वं च अद्यापि शिक्षकान् विद्यार्थिनश्च प्रेरयति।
मुख्यमन्त्री उक्तवान् यत् शिक्षकाः नवपीढीं ज्ञानेन, संस्कारेण जीवनमूल्यैश्च समृद्धां कृत्वा तस्यै सम्यग्दिशां प्रददति। राष्ट्रस्य समाजस्य च निर्माणे शिक्षकाणां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। सः प्रदेशस्य सर्वेभ्यः शिक्षकेभ्यः शिक्षकदिवसस्य हार्दिकाः शुभकामनाः प्रदत्तवान्।
----------------
Hindusthan Samachar / Dheeraj Maithani