शिक्षकः एव राष्ट्रस्य चरित्रनिर्माता, गुरुकुल कांगड्यां गुरुजनानां सम्मानः
हरिद्वारम्, 05 सितंबरमासः (हि.स.)। शिक्षकः केवलं पुस्तकीयज्ञानं प्रदाता न भवति, अपितु राष्ट्रस्य भविष्यस्य चरित्रस्य च निर्माता भवति। एतादृश्यैव भावनया गुरुकुलकाङ्गडीविद्यालयविभागे शिक्षकदिवसे गुरुजनानां सम्मानार्थं विशेषकार्यक्रमस्य आयोजनं कृतम्
गुरुकुल कांगड़ी के ब्रह्मचारी


हरिद्वारम्, 05 सितंबरमासः (हि.स.)।

शिक्षकः केवलं पुस्तकीयज्ञानं प्रदाता न भवति, अपितु राष्ट्रस्य भविष्यस्य चरित्रस्य च निर्माता भवति। एतादृश्यैव भावनया गुरुकुलकाङ्गडीविद्यालयविभागे शिक्षकदिवसे गुरुजनानां सम्मानार्थं विशेषकार्यक्रमस्य आयोजनं कृतम्।

स्वसम्बोधने मुख्याधिष्ठाता डॉ. दीनानाथशर्मा अवदत् यत् शिक्षकाः ब्रह्मचारिणां प्राणाः भवन्ति। ब्रह्मचारिणां हृदयं अत्यन्तं कोमलं भवति, तस्मिन् च यः कश्चन संस्कारः अङ्कितो भवति, सः आजीवनं तेषां चरित्रे प्रतिबिम्बितो भवति। विद्या मानवस्य सर्वाङ्गीणविकासस्य श्रेष्ठं साधनम् अस्ति। एतस्यैव प्रयोजनस्य पूर्तेः कारणेन गुरुकुलस्य ख्यातिः गतानां १२४ वर्षाणां कालात् निरन्तरं विद्यते।

प्रधानाचार्यः डॉ. विजेन्द्रशास्त्री अवदत् यत् गुरुकुलस्य ब्रह्मचारिष्वेव देशस्य भविष्यं निहितम् अस्ति। एते एव विद्यार्थी अग्रे आर्यपरम्परां प्रवर्धयिष्यन्ति तथा महर्षिदयानन्दसरस्वत्याः आदर्शानुसारं भारतनिर्माणे योगदानं प्रदास्यन्ति।

गुरुकुलकाङ्गडीवेल्फेयरएसोसिएशनस्य अध्यक्षः रविकान्तमलिकः अवदत् यत् गुरुणा विना ज्ञानम् अपूर्णं भवति, अतः जीवने सदैव गुरुजनानां सम्मानः करणीयः।

बालसभायाः अध्यक्षः अमरसिंहः अवदत् यत् शिक्षकदिवसः गुरूणां प्रति कृतज्ञतां प्रकटयितुं अवसरः अस्ति। कार्यक्रमस्य संयोजकः वेदपालसिंहः अवदत् यत् गुरुकुले सर्वे पर्वाणि आर्यपद्धत्या आचर्यन्ते, येषां उद्देश्यं ब्रह्मचारिषु श्रेष्ठसंस्काराणां निर्माणम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani