Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, ०५ सितम्बरमासः (हि.स.)। देवसंस्कृतिविश्वविद्यालये भारतरत्नेन पूर्वराष्ट्रपतिना च डॉ. सर्वपल्ली राधाकृष्णनेन जन्मजयन्तिः शिक्षक-दिवसरूपेण गरिमापूर्णे वातावरणे आचरिता। अस्मिन् अवसरे तस्य व्यक्तित्वस्य कृतित्वस्य च स्मरणं कुर्वद्भिः शिक्षां जीवननिर्माणस्य माध्यमं कर्तुं बलं प्रदत्तम्। विश्वविद्यालयस्य अध्यक्षः डॉ. प्रणवपण्ड्या स्वसन्देशे अवदत् यत् शिक्षकाः समाजस्य ते शिल्पिनः सन्ति, ये ज्ञानेन सह विद्यार्थिनां व्यक्तित्वस्य चरित्रस्य च निर्माणं कुर्वन्ति।
शिक्षकस्य दायित्वं केवलं विषयज्ञानं प्रदातुम् एव न, अपितु विद्यार्थिनः जीवनस्य समुचितैः मूल्यैः परिचितान् कर्तुम् अपि अस्ति। युगऋषेः पण्डितश्रीरामशर्माचार्यस्य विचारान् स्मरन् सः अवदत् यत् शिक्षायाः उद्देश्यं बुद्धेः विकासेन सह मनुष्ये श्रेष्ठविचाराणां, श्रेष्ठचरित्रस्य, श्रेष्ठकर्मणां च विकासः अस्ति। आचार्य-श्रीरामशर्मणा व्यक्तिनिर्माणं युगनिर्माणस्य आधारः इति मन्यते स्म। एतद्दृष्ट्या शिक्षकस्य भूमिका अत्यन्तं महत्त्वपूर्णा भवति, यतः सः स्वज्ञानेन सह स्वाचरणेन अपि विद्यार्थिनः प्रभावितं करोति।
विश्वविद्यालयस्य उपाध्यक्षः डॉ. चिन्मय-पण्ड्या शिक्षकान् सम्मानयन् अवदत् यत् शिक्षकाः कस्यापि शैक्षणिकसंस्थायाः आत्मानः भवन्ति तथा तेषां समर्पणं विद्यार्थिनां भविष्याय दिशां प्रददाति। तेन उक्तं यत् देवसंस्कृति-विश्वविद्यालयस्य प्रयत्नः अस्ति यत् अत्रतः निर्गच्छन् प्रत्येकं विद्यार्थी ज्ञानेन सह संस्कारान्, संवेदनशीलतां, अनुशासनं, राष्ट्रभावनां च स्वजीवनस्य अभिन्नाङ्गरूपेण स्वीकरोतु।
कार्यक्रमे विश्वविद्यालयस्य सर्वे शिक्षकाः, अधिकारिणः, कर्मचारिणः, विद्यार्थिनश्च उपस्थिताः आसन्। विद्यार्थिभिः स्वशिक्षकेभ्यः सम्मानं कृतज्ञता च व्यक्ता।
Hindusthan Samachar / Divya Ranjan