Enter your Email Address to subscribe to our newsletters

मोंटेवीडियो, 05 सितंबरमासः (हि.स.)।
उरुग्वे-देशे गृहपालित-कुक्कुटेषु अत्यधिक-रोगजनकस्य एच५-एवियन-इन्फ्लूएञ्जा-विषाणोः प्राप्तेः अनन्तरं सर्वकारेण सम्पूर्ण-देशे स्वास्थ्य-आपत्कालः घोषितः। संक्रमणस्य प्रसारं निवारयितुं अधिकारिभिः कुक्कुटानां आवागमने कठोर-प्रतिबन्धाः आरोपिताः सन्ति। पक्षिभिः सम्बद्धेषु मेलकेषु, नीलामेषु तथा सार्वजनिक-प्रदर्शनिषु अपि प्रतिबन्धः स्थापितः।
तुर्किये-देशस्य सरकारी-समाचार-संस्था अनाडोलू इत्यनुसारं पशुधन-कृषि-मत्स्यपालन-मन्त्रालयस्य अधीनस्थेन पशुधन-सेवा-महानिदेशालयेन दक्षिण-पश्चिम-कोलोनिया-क्षेत्रे एवियन-इन्फ्लूएञ्जा-संक्रमणस्य पुष्टिः कृता। अधिकारिणां कथनानुसारं क्षेत्रे पक्षिणां मृत्योः अनन्तरं परीक्षणं प्रारब्धम्। प्रारम्भिक-परीक्षणे संक्रमणस्य पुष्टिः न अभवत्, किन्तु पश्चात् सरकारी-प्रयोगशालायाः परीक्षणे एच५-विषाणोः उपस्थितिः प्रकाशिता।
आपत्कालीन-आदेशस्य अन्तर्गतं प्रभावित-क्षेत्रे प्रतिबन्धाः प्रवर्तिताः सन्ति। वाणिज्यिक-उद्देश्यं विना पालितानां पक्षिणां घरेलू-आवागमने प्रतिबन्धः स्थापितः। तथापि सरकारी-कुक्कुट-निरीक्षण-व्यवस्थायां पञ्जीकृताः पक्षिणः कतिपयेषु परिस्थितिषु अस्मात् प्रतिबन्धात् मुक्ताः सन्ति।
तथैव अधिकारिभिः गृहेषु मुक्तरूपेण सञ्चरन्तः पक्षिणः आवृतासु सुरक्षितासु च स्थानेषु स्थापयितुं निर्देशः दत्तः, येन तेषां सम्पर्कः वन्यपक्षिभिः सह न भवेत्।
स्वास्थ्याधिकारिभिः प्रभावित-स्थले संक्रमितानां अथवा संक्रमित-पक्षिभिः सम्पर्कं प्राप्तानां पक्षिणां वधं सुरक्षितरूपेण विनाशं च कर्तुं प्रक्रिया प्रारब्धा। तेन सह सम्भावितरूपेण दूषितानां स्थानानां सामग्रीनां च व्यापक-स्वच्छीकरणं तथा रोगाणुनाशनं क्रियमाणम् अस्ति।
कुक्कुट-उत्पादकेभ्यः कठोर-जैव-सुरक्षा-उपायान् स्वीकर्तुं परामर्शः दत्तः। एतेषु अनुमतिं विना जनानां वाहनानां च आवागमने प्रतिबन्धः, वन्यपक्षिभ्यः जलस्य आहारस्य च सुरक्षा तथा नियमितं रोगाणुनाशनम् इत्यादयः उपायाः सम्मिलिताः सन्ति।
उरुग्वे-देशस्य अधिकारिणः उक्तवन्तः यत् कुक्कुटमांसस्य अण्डानां च भक्षणेन सामान्यतः मनुष्याणां स्वास्थ्याय जोखिमः न भवति, यावत् तानि सम्यक् प्रकारेण हस्तेन व्यवहृतानि तथा सम्यक् प्रकारेण पाचितानि भवन्ति। तथापि कृषिविभागस्य स्वास्थ्यविभागस्य च दलानि संक्रमित-पक्षिभिः सम्पर्कं प्राप्तानां जनानां निरीक्षणं कुर्वन्ति।
एवियन-इन्फ्लूएञ्जा एच५एन१ इति अत्यधिक-रोगजनकः एकः उपप्रकारः अस्ति, यः मुख्यतः पक्षिषु संक्रमणं जनयति। संक्रमित-पक्षिभिः निकट-सम्पर्के आगते सति अयं विषाणुः मनुष्यम् अपि संक्रमितुं शक्नोति। तथापि मानवात् मानवस्य प्रति अस्य निरन्तर-प्रसारस्य प्रमाणं न प्राप्तम् अस्ति।
अधिकारिभिः जनानां प्रति आह्वानं कृतं यत् ते रोगग्रस्तान् मृतान् वा पक्षिणः प्रत्यक्षरूपेण न स्पृशेयुः तथा च एतादृशानां घटनानां सूचना सम्बन्धितेभ्यः स्वास्थ्याधिकारिभ्यः अथवा पशुचिकित्सा-अधिकारिभ्यः दद्युः।।
--------------
Hindusthan Samachar / Dheeraj Maithani