Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०५ सितम्बरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् सितम्बर-मासस्य ६ दिनाङ्कतः ९ दिनाङ्कपर्यन्तम् असम-मेघालय-मणिपुर-अरुणाचलप्रदेशानां चतुर्दिवसीयां यात्रां करिष्यति। अस्यां यात्रायां सः विविधेषु शैक्षणिकेषु, सांस्कृतिकेषु, सार्वजनिकेषु च कार्यक्रमेषु सहभागं करिष्यति। ऐतिहासिकानां, सामाजिकानां, राष्ट्रियमहत्त्वयुक्तानां च संस्थानानां भ्रमणमपि करिष्यति।
उपराष्ट्रपतिसचिवालयेन शनिवासरे सूचितं यत् उपराष्ट्रपतिः राधाकृष्णन् सितम्बर-मासस्य ६ दिनाङ्के असमस्य गुवाहाटीं प्राप्स्यति। सः गीतानगरमहाविद्यालयस्य स्वर्णजयन्तीसमारोहे सहभागं करिष्यति। इदं संस्थानं पूर्वं कन्यामहाविद्यालयनाम्ना प्रसिद्धम् आसीत्। ततः सः गुवाहाट्यां स्थितस्य श्रीमन्तशङ्करदेव-स्वास्थ्य-विज्ञानविश्वविद्यालयस्य दीक्षान्तसमारोहे सहभागं करिष्यति।
उपराष्ट्रपतिः सितम्बर-मासस्य ७ दिनाङ्के गुवाहाटीविश्वविद्यालयस्य कार्यक्रमे सहभागं करिष्यति। ततः विश्वविद्यालयस्य सम्मेलनकेन्द्रे छात्रैः, अध्यापकैः, प्रमुखनागरिकैश्च सह संवादं करिष्यति। अनन्तरं सः मेघालयस्य राजधानीं शिलाङ्गं प्राप्स्यति, यत्र सोसो थाम सभागारे तस्य सम्मानार्थम् आयोजिते सार्वजनिकाभिनन्दनसमारोहे सांस्कृतिककार्यक्रमे च सहभागं करिष्यति।
उपराष्ट्रपतिः सितम्बर-मासस्य ८ दिनाङ्के मणिपुरस्य इम्फालं गमिष्यति। सः मोइराङ्गस्थितं भारतीय-राष्ट्रीयसेना-संग्रहालयं युद्धस्मारकं च तथा सैनिकविद्यालयम्, इम्फालं च गमिष्यति। ततः सः अरुणाचलप्रदेशस्य इटानगरस्य कृते प्रस्थास्यति।
यात्रायाः अन्तिमे दिवसे सितम्बर-मासस्य ९ दिनाङ्के उपराष्ट्रपतिः अरुणाचल-प्रदेशविधानसभायाः विशेषसत्रे सहभागं करिष्यति तथा विधानसभादीर्घा-सह-संग्रहालयस्य भ्रमणं करिष्यति। सः इटानगरे स्थितं न्येदार नामलो, जवाहरलालनेहरूराज्यसंग्रहालयं तथा श्रवणदृष्टिबाधितविद्यार्थिभ्यः सञ्चालितं डोनी पोलो मिशन विद्यालयं च अपि गमिष्यति।
Hindusthan Samachar / Divya Ranjan