Enter your Email Address to subscribe to our newsletters

नव टिहरी, 05 सितंबरमासः (हि.स.)। शिक्षकदिवसस्य अवसरे चम्बा-खण्डस्य राजकीय-अन्तरमहाविद्यालये छापरधारे नवनिर्मितस्य भवनस्य लोकार्पणं कृतम्। अस्मिन् अवसरे विद्यालयस्य शिक्षकाणां सम्मानं कृतम्। कार्यक्रमे छात्रैः छात्राभिश्च रङ्गारङ्ग-सांस्कृतिक-प्रस्तुतिः प्रदत्ता। विद्यालयस्य ‘बुरांस’ इति पुस्तिकायाः अपि विमोचनं कृतम्।
शनिवासरे जी.आइ.सी. छापरधारस्य द्विकोटिरूप्यकाणां व्ययेन निर्मितस्य नूतनभवनस्य लोकार्पणं पूर्वमन्त्रिमण्डल-सदस्येन दिनेशधनैना कृतम्। सः अवदत् यत् शिक्षायाः गुणवत्तां वर्धयितुं आवश्यकानां संसाधनानां वृद्धिः करणीया। यदि विद्यार्थिभ्यः समुचिताः सुविधाः प्राप्यन्ते तर्हि अध्ययनमपि उत्तमं भविष्यति। सः अवदत् यत् स्वस्य कार्यकाले तेन अनेकानां विद्यालयानां भवननिर्माणं तथा अन्यानि आवश्यककार्याणि कारितानि।
सः अवदत् यत् शिक्षकः एकः शिल्पी भवति, यः देशस्य भविष्यस्य निर्माणकार्यं करोति। गुरोः स्थानं भगवतः अपेक्षयापि उच्चतरं मन्यते। अतः शिक्षकैरपि अस्य सम्मानस्य गौरवं संरक्षितव्यम्। अस्मिन् अवसरे तेन विद्यालयस्य शिक्षकाः सम्मानिताः।
कार्यक्रमे विद्यालयस्य प्रधानाचार्यः गब्बरसिंहचौहानः, पूर्वज्येष्ठोपप्रमुखः नरेन्द्रचन्दरमोलः, व्यापारमण्डलाध्यक्षः बलवीरसिंहपुंडीरः, लाखीरामडबरालः, पूर्वप्रधानः देवसिंहपुंडीरः, पी.टी.ए. अध्यक्षः जितेन्द्रसिंहः, रणवीरसिंहः, हिम्मतसिंहः तथा प्रधानः विनोदडबरालः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani