अण्डमान-निकोबारद्वीपसमूहस्य नवनियुक्तः उपराज्यपालः डॉ. दिनेशशर्मा भाजपाकेन्द्रीयनेतृत्वं प्रधानमन्त्री गृहमन्त्री च प्रति कृतज्ञतां प्रकटितवान्
नवदिल्ली, ०६ सेप्टेम्बरमासः (हि.स.)। अण्डमान-निकोबारद्वीपसमूहस्य नवनियुक्तः उपराज्यपालः डॉ. दिनेशशर्मा स्वस्मिन् विश्वासं प्रकटितवतः भारतीय-जनतापार्टी इत्यस्य केन्द्रीयनेतृत्वस्य कृतज्ञतां प्रकटितवान्। उत्तरप्रदेशस्य पूर्वोपमुख्यमन्त्री राज्यसभासदस
ac953a9399486fbc67b02532f627cc60_1387537217.jpg


नवदिल्ली, ०६ सेप्टेम्बरमासः (हि.स.)। अण्डमान-निकोबारद्वीपसमूहस्य नवनियुक्तः उपराज्यपालः डॉ. दिनेशशर्मा स्वस्मिन् विश्वासं प्रकटितवतः भारतीय-जनतापार्टी इत्यस्य केन्द्रीयनेतृत्वस्य कृतज्ञतां प्रकटितवान्। उत्तरप्रदेशस्य पूर्वोपमुख्यमन्त्री राज्यसभासदस्यश्च शर्मणा ‘एक्स’-सामाजिकमाध्यमे राष्ट्रपतिं प्रधानमन्त्रिणं गृहमन्त्रिणं च प्रति कृतज्ञतां प्रकटयता लिखितम्— “अहं पूर्णनिष्ठया, ईमानदारीपूर्वकं समर्पण-भावेन च अस्य दायित्वस्य निर्वहणं कर्तुं सङ्कल्पं करोमि।”

सः अस्य कृते राष्ट्रपतिं द्रौपदीमुर्मुम्, प्रधानमन्त्री नरेन्द्रमोदिनं, केन्द्रीयगृहमन्त्री अमितशाहं दलस्य केन्द्रीयनेतृत्वं च प्रति कृतज्ञतां प्रकटितवान्। दिनेशशर्मा लिखितवान्— “अस्य महत्त्वपूर्णस्य दायित्वस्य कृते अहं सर्वेषां सम्मानितानां वरिष्ठजनानां, शुभचिन्तकानां, मित्राणां देशवासिनां च हृदयतः कृतज्ञतां प्रकटयामि, यैः स्वशुभकामनाभिः आशीर्वादैश्च मां निरन्तरं प्रेरितम्।”

डॉ. शर्मणा लिखितम्— “एतत् मम कृते केवलं पदं नास्ति, अपि तु संविधानस्य, राष्ट्रस्य जनसेवायाश्च प्रति महती जिम्मेदारी अस्ति। अहं पूर्णनिष्ठया, सत्यतापूर्वकं समर्पणभावेन च अस्य दायित्वस्य निर्वहणं कर्तुं सङ्कल्पं करोमि। भवतां सर्वेषां स्नेहः, विश्वासः आशीर्वादश्च सदैव एवं प्रकारेण एव तिष्ठतु।”

Hindusthan Samachar / Divya Ranjan