कन्नौज : च्यवन ऋषि आश्रमस्य सौंदर्यीकरणं कारयिष्यति सर्वकारः, 61 लक्षस्य रुप्यकाणां प्रथमराशिर्निर्गतः
लखनऊ, 06 सितंबरमासः (हि.स.)।उत्तरप्रदेशसर्वकारः आयुर्वेदचिकित्सायाः महान् विभूतिं ‘च्यवनप्राशस्य’ जनकं च्यवनर्षेः कन्नौजस्थितस्य आश्रमस्य पर्यटनविकासं कर्तुं प्रवर्तते। च्यवनर्ष्याश्रमः भारतीयर्षिपरम्परायाः, तपस्यायाः आयुर्वेदिकज्ञानस्य च महत्त्वपू
उत्तर प्रदेश के पर्यटन एवं संस्कृति मंत्री जयवीर सिंह


लखनऊ, 06 सितंबरमासः (हि.स.)।उत्तरप्रदेशसर्वकारः आयुर्वेदचिकित्सायाः महान् विभूतिं ‘च्यवनप्राशस्य’ जनकं च्यवनर्षेः कन्नौजस्थितस्य आश्रमस्य पर्यटनविकासं कर्तुं प्रवर्तते। च्यवनर्ष्याश्रमः भारतीयर्षिपरम्परायाः, तपस्यायाः आयुर्वेदिकज्ञानस्य च महत्त्वपूर्णं केन्द्रम् अस्ति। मान्यतानुसारं महर्षिः च्यवनः अस्यामेव तपोभूमौ कठोरां साधनां कृतवान्। पर्यटनविभागेन च्यवनर्षिसम्बद्धायाः पौराणिकस्थल्याः पर्यटनविकासाय महत्त्वपूर्णः पदक्षेपः कृतः अस्ति। मुख्यमन्त्रिपर्यटनविकासयोजनायाः अन्तर्गतं जनपदस्य छिबरामऊविधानसभाक्षेत्रस्य गुगरापुरविकासखण्डस्थितस्य आश्रमस्य पर्यटनविकासाय एकाशीतिलक्षरूप्यकाणां पञ्चत्रिंशल्लक्षांशाधिकस्य च अर्थात् ८१.३५ लक्षरूप्यकाणां परियोजनायाः अनुमोदनं प्राप्तम् अस्ति।

उत्तरप्रदेशस्य पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः अवदत्— “कन्नौजस्थितः च्यवनर्ष्याश्रमः भारतीयर्षिपरम्परायाः, तपस्यायाः आयुर्वेदिकज्ञानस्य च अमूल्या धरोहरः अस्ति। पौराणिकमान्यतानुसारं महर्षिः च्यवनः अत्रैव कठोरां तपस्यां कृतवान्। आयुर्वेदे विशेषस्थानं धारयतः ऋषेः च्यवनस्य नाम अद्यापि ‘च्यवनप्राशस्य’ माध्यमेन गृहे गृहे प्रसिद्धम् अस्ति, यः स्वस्थस्य सुखमयस्य च जीवनस्य प्रतीकः मन्यते। एवं ऐतिहासिकमहत्त्वयुक्तस्य आध्यात्मिकमहत्त्वयुक्तस्य च स्थलस्य पर्यटनविकासेन प्रदेशस्य सांस्कृतिकधरोहराय विशिष्टा परिचितिः प्राप्स्यति तथा श्रद्धालूनां पर्यटकानां च कृते आकर्षणं वर्धिष्यते।”

च्यवनर्ष्याश्रमे वर्धिष्यन्ते पर्यटकसुविधाः

कन्नौजजनपदस्थितस्य च्यवनर्ष्याश्रमस्य पर्यटनविकासाय प्रथमकिस्तिरूपेण एकषष्टिलक्षरूप्यकाणि अर्थात् ६१ लक्षरूप्यकाणि विमोचितानि सन्ति। उत्तरप्रदेशराज्यपर्यटनविकासनिगमेन करणीयानां कार्याणां विस्तृतशृङ्खलायाः अन्तर्गतं श्रद्धालूनां पर्यटकानां च सुविधानां विशेषं ध्यानं दीयते। आश्रमस्य समीपे बहुउद्देशीयसभाभवनस्य निर्माणं कारयिष्यते। पर्यावरणानुकूलव्यवस्थायाः प्रोत्साहनाय सौरपटलानि स्थापयिष्यन्ते। परिसरे प्रकाशव्यवस्थायै वीथिदीपाः, आगन्तुकानां उपवेशनाय आरसीसीपीठिकाः मार्गदर्शनाय च सङ्केतफलकानि व्यवस्थापयिष्यन्ते। पर्यटनविभागस्य मुख्यं ध्यानं स्थले आगन्तुकेभ्यः आवश्यकानां मूलभूतसुविधानां सुधारं प्रति भविष्यति।

एवं जातः च्यवनप्राशस्य आविष्कारः

पौराणिकमान्यतानुसारं कन्नौजस्थितः च्यवनर्ष्याश्रमः सैव तपोभूमिः अस्ति, यत्र महर्षिः च्यवनः वर्षाणि यावत् कठोरां तपस्यां कृतवान्। कथ्यते यत् तस्य तपस्याकाले तस्य परितः वल्मीकस्य विशालः स्तूपः निर्मितः आसीत् तथा अस्मिन्नेव स्थले राजकुमार्या सुकन्यया सम्बद्धा प्रसिद्धा कथा घटिता। अनन्तरं सुकन्यायाः सेवया समर्पणेन च अश्विनीकुमारयोः दिव्याशीर्वादेन महर्षिः च्यवनः पुनः यौवनं दृष्टिं च प्राप्तवान्। ततः परं सः आयुर्वेदस्य मानवस्वास्थ्यस्य च कल्याणाय अनुसन्धानकार्यं कृतवान्। मान्यता अस्ति यत् अस्याः ज्ञानपरम्परायाः ‘च्यवनप्राशः’ इत्यस्य अमूल्यस्य आयुर्वेदिकयोगस्य उद्भवः अभवत्, यः अद्यापि स्वास्थ्यस्य, दीर्घायुषः जीवनशक्तेश्च प्रतीकः मन्यते। एतदेव कारणं यत् च्यवनर्ष्याश्रमः भारतीयर्षिपरम्परायाः, आयुर्वेदिकधरोहरायाः आध्यात्मिकचेतनायाश्च महत्त्वपूर्णं केन्द्रं मन्यते।

Hindusthan Samachar / Dheeraj Maithani