Enter your Email Address to subscribe to our newsletters

लखनऊ, 06 सितंबरमासः (हि.स.)।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः रविवासरे मार्गदुर्घटनायां चतुर्णां जनानां मृत्योः विषये दुःखं प्रकटितवान्। तेन मृतकानां परिजनैः सह संवादं कृत्वा सर्वसम्भवसहायतां प्रदातुं अधिकारिभ्यः निर्देशाः दत्ताः। तेन अधिकारिभ्यः घायितानां समुचितचिकित्सां कारयितुं अपि निर्देशाः प्रदत्ताः।
उल्लेखनीयम् अस्ति यत् उत्तरप्रदेशस्य सम्भलजनपदे आग्रामुरादाबादराष्ट्रियमार्गे घटितायां मार्गदुर्घटनायां चत्वारः जनाः मृताः। अस्मिन् दुर्घटनायां बहवः जनाः घायिताः सन्ति। प्रशासनं मृतकानां परिचयं ज्ञातुं प्रयतते। अपरतः घायितेभ्यः उत्तमचिकित्सासुविधा प्रदीयते।
---------------