Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 सितंबरमासः (हि.स.)।
दिल्लीमुख्यमन्त्री रेखागुप्ता रविवासरे शालीमारबागविधानसभाक्षेत्रे अनेकासां महत्वपूर्णानां विकासपरियोजनानाम् उद्घाटनं निर्माणकार्याणां च शुभारम्भं कृतवती। एताभिः परियोजनाभिः क्षेत्रस्य स्वच्छताव्यवस्था, उद्यानानां सौन्दर्यीकरणं मार्गसम्पर्कव्यवस्था च अधिकं सुदृढा भविष्यन्ति।
शिक्षाक्षेत्रे महत्वपूर्णं पदक्षेपं कुर्वती मुख्यमन्त्रिणा शालीमारबागस्थितस्य बीबीखण्डस्य विद्यालयभवनस्य निर्माणकार्यस्य उद्घाटनं कृतम्। अनेन क्षेत्रस्य विद्यार्थिभ्यः उत्तमशैक्षणिकसुविधानां विकासाय गतिः प्राप्स्यते। अपरत्र विद्युत्व्यवस्थां अधिकां सुरक्षितां सुव्यवस्थितां च कर्तुं एएफखण्डे खुले उपरितनविद्युत्तन्तोः भूमिगतविद्युत्तन्तौ परिवर्तनस्य कार्यस्य शुभारम्भः कृतः।
तदतिरिक्तं मुख्यमन्त्रिणा शालीमारबागस्य सीएण्डडीखण्डस्य मुख्यमार्गे खुले उपरितनविद्युत्तन्तोः भूमिगतविद्युत्तन्तौ परिवर्तनस्य कार्यस्य शुभारम्भः कृतः। अनेन क्षेत्रे विद्युत्व्यवस्थां अधिकां सुरक्षितां सुव्यवस्थितां च कर्तुं सहायता भविष्यति।
मुख्यमन्त्रिणा पीतमपुरास्थितस्य श्रीगुरुगोविन्दसिंह महाविद्यालयात् रिङ्गमार्गपर्यन्तं नवीनमार्गस्य निर्माणकार्यस्य अपि शुभारम्भः कृतः। प्रायः २.८४ कोटिरूप्यकाणां व्ययेन निर्मीयमाणः अयं मार्गः क्षेत्रस्य सम्पर्कव्यवस्थां सुदृढां करिष्यति तथा नागरिकानां आवागमनं अधिकं सुविधाजनकं करिष्यति।
तया हैदरपुरस्य नेहरुकैम्पक्षेत्रे नवनिर्मितस्य शौचालयखण्डस्य अपि उद्घाटनं कृतम्। तथैव पीतमपुरस्य एसपीटीपीखण्डे आधुनिकअपशिष्टसंपीडकस्य उद्घाटनं कृतम्। आधुनिकां अपशिष्टप्रबन्धनव्यवस्थां सुदृढां कर्तुं कृतः अयं प्रयासः क्षेत्रस्य स्वच्छताव्यवस्थां अधिकं प्रभावपूर्णां कर्तुं सहायकः भविष्यति।
मुख्यमन्त्रिणा वाईपीखण्डस्य त्रिषु उद्यानेषु डब्ल्यूपीखण्डस्य दशसु उद्यानेषु च क्रियमाणानां सौन्दर्यीकरणविकासकार्याणाम् उद्घाटनं कृतम्। एतेषां कार्याणां माध्यमेन स्थानीयवासिभ्यः उत्तमं स्वच्छं सुन्दरं च हरितक्षेत्रं प्रदातुं विशेषं बलं दत्तम् अस्ति।
अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तं यत् दिल्लीसर्वकारस्य लक्ष्यं विकासं केवलं बृहद्परियोजनासु सीमितं न कृत्वा प्रत्येकां वीथिं, प्रत्येकां वसतिं, प्रत्येकं नागरिकं च उत्तमाभिः सुविधाभिः योजयितुम् अस्ति। सर्वकारः स्वच्छतायाः, हरितसुन्दराणां सार्वजनिकस्थानानां, उत्तममार्गसम्पर्कस्य, सुदृढनगरीयव्यवस्थानां च माध्यमेन दिल्लीवासिनां जीवनं अधिकं सुविधाजनकं कर्तुं निरन्तरं कार्यं करोति।
शालीमारबागविधानसभाक्षेत्रं स्वच्छतायाः, उत्तमजनसुविधानां, सुलभस्वास्थ्यसेवानां, सुदृढनगरीयव्यवस्थानां च युक्तम् आदर्शविधानसभाक्षेत्ररूपेण विकसितुं दिल्लीसर्वकारस्य सङ्कल्पः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani