काङ्ग्रेसेन सर्वकारस्य उपरि इस्रो-संस्थायाः भूमिकां सीमितुं आरोपः, रमेशः अवदत्— वैज्ञानिकानां परिश्रमेन विकसितक्षमतानां निजीक्षेत्राय हस्तान्तरणं चिन्ताजनकम्
नवदिल्ली, ०६ सेप्टेम्बरमासः (हि.स.)। काङ्ग्रेसमहासचिवः सांसदश्च जयरामरमेशः आरोपितवान् यत् केन्द्रसर्वकारः अन्तरिक्षक्षेत्रे निजी-निर्माणीनां नवोद्यामिनां च प्रोत्साहनस्य नाम्ना भारतीय-अन्तरिक्ष-अनुसन्धान-संस्थायाः भूमिकां सीमितां करोति। सः अवदत् यत
कांग्रेस महासचिव (संचार) जयराम रमेश (फाइल फोटो)।


नवदिल्ली, ०६ सेप्टेम्बरमासः (हि.स.)। काङ्ग्रेसमहासचिवः सांसदश्च जयरामरमेशः आरोपितवान् यत् केन्द्रसर्वकारः अन्तरिक्षक्षेत्रे निजी-निर्माणीनां नवोद्यामिनां च प्रोत्साहनस्य नाम्ना भारतीय-अन्तरिक्ष-अनुसन्धान-संस्थायाः भूमिकां सीमितां करोति। सः अवदत् यत् षड्दशकानां कालखण्डे वैज्ञानिकानां इस्रो-कर्मचारिणां च परिश्रमेण विकसितानां क्षमतानां निजीक्षेत्राय हस्तान्तरणस्य प्रक्रिया गम्भीरचिन्तायाः विषयः अस्ति।

जयरामरमेशः रविवासरे ‘एक्स’-सामाजिकमाध्यमे एकस्य वार्तापत्रस्य कर्तितांशं साझा-कृतवान्, यस्मिन् इस्रो-संस्थायाः नव कर्मचारी-सङ्घटनानां पक्षतः निजीकरणसम्बन्धे उत्थापितानां प्रश्नानाम् उल्लेखः अस्ति। तेन सह सः राज्यसभायां अस्मिन्नेव विषये पूर्वं कृतस्य स्वस्य भाषणस्य दृश्यकणिकामपि साझा-कृतवान्। तस्मिन् सः अन्तरिक्षकार्यक्रमस्य सार्वजनिक-स्वरूपस्य वैज्ञानिकसंस्थानानां स्वतन्त्रतायाश्च विषये बलं दत्तवान् आसीत्।

जयरामरमेशः अवदत् यत् इस्रो-समुदायस्य अन्तः एव निजीकरणस्य विषये स्वरस्य उत्थापनं प्रशंसनीयम् अस्ति। सः हालिया-जीएसएलवी-प्रक्षेपणस्य सफलतायाः उल्लेखं कृत्वा अवदत् यत् एषा इस्रो-संस्थायाः क्षमतायाः प्रमाणम् अस्ति। सः अवदत् यत् इस्रो-संस्थायाः एकेन पूर्वाध्यक्षेण अपि निजीकरणसम्बन्धिन्यः स्वचिन्ताः प्रकटिताः सन्ति तथा च अन्यैः वैज्ञानिकैरपि मौनं न धारणीयम्।

सः आरोपितवान् यत् सर्वकारः अन्तरिक्षकार्यक्रमे आक्रामकनिजी-करणस्य दिशि अग्रे गच्छति। रॉकेट-विकासे निर्माणे च इस्रो-संस्थायाः भूमिकां सीमितां कर्तुं तथा उपग्रहसम्बद्धान् संसाधनान् निजी-निर्माणीभ्यः हस्तान्तरितुं च सज्जता क्रियते। तेन तमिलनाडुराज्यस्य कुलशेखरपट्टिनमे निर्मीयमाणस्य नूतनस्य अन्तरिक्षप्रक्षेपणकेन्द्रस्य श्रीहरि-कोटायाः भविष्यस्य च विषये अपि प्रश्नाः उत्थापिताः।

जयरामरमेशः अवदत् यत् अन्तरिक्षक्षेत्रे निजी-सहभागितायाः समर्थनं कर्तुं शक्यते, किन्तु तस्य अर्थः इस्रो-संस्थायाः दुर्बलीकरणं न भवेत्। इस्रो देशस्य वैज्ञानिकपरम्परायाः धरोहरम् अस्ति तथा भारतः स्वस्य वैज्ञानिकाधारस्तम्भेन सह कदापि सन्धिं कर्तुं न शक्नोति।

Hindusthan Samachar / Divya Ranjan