दिल्लीं प्रदूषणमुक्तां कर्तुं जनजागरणाभियानस्य शुभारम्भः, मार्च २०२७ पर्यन्तं चलिष्यति : सिरसा
नवदिल्ली, 06 सितंबरमासः (हि.स.)। दिल्लीसर्वकारः राष्ट्रियधान्यां वायुप्रदूषणं न्यूनीकर्तुं वायुगुणवत्तायाश्च सुधारं कर्तुं निरन्तरं व्यापकप्रयासान् करोति। एतेषु प्रयासेषु प्रवर्तनं, प्राविधिकहस्तक्षेपः, हितधारकाणां सहभागिता, जनसहभागिता च समाविष्ट
दिल्ली के पर्यावरण मंत्री मनजिंदर सिंह सिरसा  (फाइल फोटो)


नवदिल्ली, 06 सितंबरमासः (हि.स.)।

दिल्लीसर्वकारः राष्ट्रियधान्यां वायुप्रदूषणं न्यूनीकर्तुं वायुगुणवत्तायाश्च सुधारं कर्तुं निरन्तरं व्यापकप्रयासान् करोति। एतेषु प्रयासेषु प्रवर्तनं, प्राविधिकहस्तक्षेपः, हितधारकाणां सहभागिता, जनसहभागिता च समाविष्टाः सन्ति। अस्यामेव प्रतिबद्धतायाः अग्रे विस्तारं कुर्वती दिल्लीसर्वकारेण सम्पूर्णनगरव्यापी सूचना शिक्षा सञ्चार तथा जनजागरणाभियानस्य शुभारम्भः कृतः अस्ति।

दिल्लीपर्यावरणमन्त्री मनजिन्दरसिंहसिरसा अद्य एकां विज्ञप्तिं निर्गमयन् उक्तवान् यत् दिल्लीसर्वकारः वायुप्रदूषणस्य आव्हानस्य निराकरणाय पूर्णगाम्भीर्येण निरन्तरतया च कार्यं करोति। सर्वकारः प्रत्येकस्मिन् स्तरे प्रवर्तनव्यवस्थां सुदृढां करोति तथा च व्यापकान् उपायान् कार्यान्वयति। किन्तु स्वच्छवायोः कृते संघर्षः केवलं सर्वकारस्य प्रयासैः न विजेतुं शक्यते। प्रत्येकस्य नागरिकस्य, प्रत्येकस्य संस्थानस्य, प्रत्येकस्य हितधारकस्य च अस्मिन् महत्वपूर्णा भूमिका अस्ति।

सिरसा उक्तवान् यत् दिल्लीप्रदूषणनियन्त्रणसमित्या सञ्चालितमिदमभियानं सितम्बरमासात् २०२६ आरभ्य मार्चमासं २०२७ पर्यन्तं साथ निभाएं प्रदूषण घटाएं इति विषयवस्तुना सञ्चालितं भविष्यति। अस्य अभियानस्य माध्यमेन दिल्लीप्रदेशस्य विभिन्नानां सर्वकारीयविभागानां, संस्थानानां, उद्योगानां, समुदायानां, नागरिकानां च एकीकरणं कृत्वा स्वच्छस्वस्थवायोः कृते निरन्तरं सामूहिकं जनान्दोलनं निर्मीयते।

अस्यैव उद्देश्यार्थम् इदं अभियानं पर्यावरणसम्बन्धिनीं जागरूकतां केवलं सूचनाप्रदानपर्यन्तं सीमितां न कृत्वा तां कार्यरूपे परिणमयितुं विशेषं बलं दास्यति। अस्य माध्यमेन नागरिकाः प्रदूषणस्य विभिन्नस्रोतानां विषये जागरूकाः करिष्यन्ते तथा तेभ्यः सरलानां व्यावहारिकानां च उपायानां सूचना प्रदास्यते। एतेषां उपायानां माध्यमेन व्यक्तिगताः सामूहिकाश्च प्रयासाः स्वच्छवायोः सुनिश्चितकरणे योगदानं दातुं शक्नुवन्ति।

आगामिषु मासेषु दिल्लीप्रदेशे जागरूकतासंवेदनशीलताहितधारकसहभागितासम्बद्धानां विभिन्नानां गतिविधीनां शृङ्खला आयोजयिष्यते। विद्यालयानां महाविद्यालयानां, उद्योगानां, निवासी कल्याणसङ्घानां, विपणनस्थानानां, निर्माणक्षेत्रसम्बद्धानां हितधारकाणां, बृहद्प्रमाणेन अपशिष्टोत्पादकानां, कृषकाणां, वाहनस्वामिनां, सामान्यनागरिकाणां च लक्ष्यितगतिविधीनां माध्यमेन अभियानस्य सह संयोजनं करिष्यते।

सिरसा उक्तवान् यत् अस्माकं दृष्टिकोणः स्पष्टः अस्ति विकासः पर्यावरणीयदायित्वं च सहैव प्रवर्तितव्यम्। उद्योगाः, संस्थानानि, वाणिज्यिकप्रतिष्ठानानि च दिल्लीं स्वच्छवायुसम्पन्नां कर्तुं प्रवर्तमाने यात्रायां महत्वपूर्णाः भागिनः सन्ति। अस्य अभियानस्य माध्यमेन अस्माकं उद्देश्यं जागरूकतायाः वर्धनम्, अनुपालनस्य प्रोत्साहनम्, तथा च प्रत्येकः हितधारकः सततविकासः प्रदूषणनियन्त्रणं च परस्परपूरकौ उद्देशौ स्तः इति अवगच्छेत् इति सुनिश्चितकरणम् अस्ति।

अभियानस्य शुभारम्भः विभिन्नैः विभागैः हितधारकैश्च क्रियमाणाभिः बह्वीभिः भूमिस्तरीयगतिविधिभिः सह अभवत्। नवदिल्ली नगरपालिकापरिषदा स्वच्छताकर्मचारिभिः सह सूचनाशिक्षासञ्चारसम्बद्धाः गतिविधयः आयोजिताः। अपरत्र अपशिष्टप्रबन्धनक्षेत्रे कार्यरतया गैरसर्वकारीयसंस्थया चिन्तनेन दिल्लीं कूड़े से आजादी स्वच्छताअभियान २०२६ इत्यस्य अन्तर्गतं लोधीउद्यानस्य चाणक्यमॉलस्य च गृहव्यवस्थापनकर्मचारिभ्यः प्रशिक्षकप्रशिक्षणसत्राणि आयोजितानि।

परिवहनविभागेन प्रदूषणनियन्त्रणप्रमाणपत्रस्य अनुपालनम्, वाहनैः जन्यमानं प्रदूषणम्, समये वाहनसेवा, उपयोगकालं पूर्णतां गतानां वाहनानां उत्तरदायित्वपूर्णं निस्तारणम्, स्वच्छइन्धनम्, विद्युद्वाहनानि, दिल्लीविद्युद्वाहननीतिः च केन्द्रे स्थापयित्वा जागरूकतागतिविधयः आयोजिताः तथा परिवहनक्षेत्रसम्बद्धाः हितधारकाः अभियानस्य सह संयोजिताः।

दिल्ली यातायातपुलिसेन अपि त्रिशतानां विद्यार्थिनां सहभागितया मार्गसुरक्षाजागरूकताकार्यक्रमः आयोजितः। एताः गतिविधयः केवलं प्रारम्भमात्रम् सन्ति। आगामिषु मासेषु दिल्लीसर्वकारः सम्पूर्णनगरे जागरूकताजनसम्पर्कहितधारकसहभागितासम्बद्धानां गतिविधीनां निरन्तरां शृङ्खलाम् आयोजयिष्यति।

अस्य उद्देश्यं प्रदूषणनियन्त्रणं केवलं सर्वकारस्य कार्यक्रमः न भवेत्, अपितु समाजस्य प्रत्येकवर्गस्य सहभागितया सम्पन्नं सामूहिकं जनान्दोलनं भवेत् इति सुनिश्चितकरणम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani