Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ सेप्टेम्बरमासः (हि.स.)। लोकसभाध्यक्षः ओम्बिरला रविवासरे परमवीरचक्रेण सम्मानितस्य मेजर्-धनसिंहथापामहोदयस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्।
बिरला ‘एक्स’-सामाजिकमाध्यमे लिखितवान्— “१९६२ तमे वर्षे भारत-चीनयोः युद्धस्य नायकाय परमवीरचक्रेण सम्मानिताय मेजरधनसिंहथापामहोदयाय पुण्यतिथौ भावपूर्णां श्रद्धाञ्जलिम्! तस्य वीरता नेतृत्वं च भारतीयसैन्येतिहासस्य तेषु गौरवपूर्णेषु अध्यायेषु अन्तर्भवति, यान् देशः सर्वदा गौरवेण स्मरिष्यति।”
उल्लेखनीयं यत् २८ एप्रिलमासे १९२८ तमे वर्षे शिमलानगरे जन्म प्राप्तवान् थापामहोदयः १९६२ तमस्य वर्षस्य अक्टोबरमासे लद्दाखे पैङ्गोङ्ग-सरसः उत्तरीयतटे स्थितायां ‘सिरीजाप-१’ चौक्यां अष्टाविंशतिभिः सैनिकैः सह नियुक्तः आसीत्। चीनीयसेनया तीव्रगुटिकाभिः टङ्कयानेभिश्च आक्रमणं कृतम्। मेजर्-थापामहोदयः तस्य सैनिकाश्च “जय महाकाली, आयो गोरखाली” इति घोषेण शत्रोः अनेकानि आक्रमणानि विफलीकृतवन्तः।
गोला-बारूदस्य समाप्तेः अनन्तरं ते प्रत्यक्षयुद्धे प्रवृत्ताः, अन्ते च चीनदेशीयैः सैनिकैः बन्दिनः कृताः। भारतदेशे तान् हुतात्मानं मत्वा मरणोत्तरं परमवीरचक्रेण सम्मानितवन्तः। किन्तु सार्धैकवर्षानन्तरं १९६३ तमस्य वर्षस्य मेमासे यदा ते बन्दीगृहात् मुक्ताः, तदा सम्पूर्णः देशः तेषां पुनरागमनेन आश्चर्यचकितः हृष्टश्च अभवत्। चतुर्विंशतिवर्षाणि देशस्य सेवां कृत्वा ते सेनातः निवृत्ताः अभवन्। ०६ सेप्टेम्बरमासे २००५ तमे वर्षे तेषां निधनम् अभवत्।
Hindusthan Samachar / Divya Ranjan