Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 06 सितंबरमासः (हि.स.)।
मुख्यमन्त्री पुष्करसिंहधामी रविवासरे देहरादूने सर्राफमण्डलेन आयोजिताम् आभूषणप्रदर्शनीम् अवलोकितवान्। सः पारम्परिकाभूषणानां विन्यासस्य तथा सुवर्णकाराणां कलायाः कौशलस्य च प्रशंसाम् अकरोत्। मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् एतादृशाः आयोजनाः भारतीयकलायाः, संस्कृतेः, परम्परायाः, स्थानीयकौशलस्य च नूतनपरिचयं प्रदातुं महत्त्वपूर्णं माध्यमम् अस्ति। सुवर्णकारसमाजः केवलम् आभूषणनिर्माणं न करोति, अपितु भारतस्य गौरवपूर्णां परम्परां सांस्कृतिकविरासतं च संरक्षितुं तां च पीढीतः पीढीं प्रति अग्रे नेतुं महत्त्वपूर्णं कार्यमपि करोति। विवाहे, उत्सवेषु, धार्मिकानुष्ठानेषु च अस्माकं जीवनस्य प्रत्येकस्मिन् शुभावसरे आभूषणानि अस्माकं परम्पराणां, भावनानां, सांस्कृतिकपरिचयस्य च प्रतीकरूपेण भवन्ति।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे ‘स्थानीयाय स्वरम्’, ‘भारते निर्माणम्’, ‘भारते निर्मितम्’ तथा ‘उद्यमारम्भभारतम्’ इत्यादीनां योजनानां माध्यमेन देशस्य शिल्पिनां, स्थानीयानां उत्पादानां, स्वदेशीकौशलस्य च नूतनः परिचयः नूतनाश्च अवसराः प्राप्यन्ते। ‘विकसितभारतम्-२०४७’ इति लक्ष्यस्य अनुरूपं भारतं वैश्विकाभूषणनिर्माणस्य विन्यासस्य च प्रमुखकेन्द्रं कर्तुं निरन्तरं प्रयासाः क्रियन्ते।
मुख्यमन्त्री अवदत् यत् उत्तराखण्डसर्वकारः अपि पारम्परिककौशलस्य, हस्तशिल्पस्य, स्थानीयशिल्पिनां च प्रोत्साहनेन सह कौशलविकासस्य आर्थिकसहायतायाश्च माध्यमेन तान् सशक्तीकर्तुं प्रतिबद्धः अस्ति। सः अवदत् यत् उत्तराखण्डस्य समृद्धपारम्परिकाभूषणानां—गढ़वाली-नथः, पौञ्जी, चम्पकलीहारः, कुमाऊँनी-गुलोबन्दः, पिचौराहारः, झुमका इत्यादीनां राष्ट्रीये वैश्विके च मञ्चे परिचयं प्रदातुम् आवश्यकता अस्ति।
सः अवदत् यत् पारम्परिकविन्यासान् आधुनिकानाम् आवश्यकतानां परिवर्तमानकालस्य च अनुरूपं विकसित्य ‘स्थानीयतः वैश्विकम्’ इति लक्ष्यं प्राप्तुं शक्यते। अनेन उत्तराखण्डस्य स्थानीयशिल्पिनां सुवर्णकाराणां च कृते रोजगारस्य स्वयम्-रोजगारस्य च नूतनाः अवसराः सृज्येरन् तथा युवापीढी अपि स्वस्य समृद्धया संस्कृत्या परम्पराभिश्च अधिकं सम्बद्धा भवितुं शक्नुयात्।
मुख्यमन्त्री धामी अवदत् यत् पारम्परिकाभूषणानां संरक्षणेन सह सुवर्णकारसमाजस्य कौशलविकासाय राज्यसर्वकारः प्रतिबद्धः अस्ति। अस्याः दिशायाः आवश्यकां योजनां निर्माय सुवर्णकारान् शिल्पिनश्च अग्रे नेतुं प्रभाविपदानि स्वीकरिष्यन्ते।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः उत्तराखण्डं देशस्य ‘सर्वश्रेष्ठराज्यम्’ कर्तुम् ‘विकल्परहितसंकल्पेन’ कार्यं करोति। सः अस्य संकल्पस्य साकारीकरणे सुवर्णकारसमाजस्य सक्रियसहयोगस्य सहभागितायाश्च आह्वानम् अकरोत्।---