ब्रिक्स सम्मेलनस्य कारणेन जीएसटी परिषदः उपवेशनम् अधुना 7दिनांके अक्टूबरमासीये भविष्यति
नवदिल्ली, 06 सितंबरमासः (हि.स.)। मालसेवाकरपरिषदः सितम्बरमासस्य द्वादशदिनाङ्के आयोज्यमाना सप्तपञ्चाशत्तमी सभा ब्रिक्सशिखरसम्मेलनस्य कारणेन स्थगिता अस्ति। इदानीं सा सभा अक्टोबरमासस्य सप्तमदिनाङ्के आयोजिता भविष्यति। आधिकारिकसूत्रैः रविवासरे उक्तं यत
जीएसटी परिषद के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, 06 सितंबरमासः (हि.स.)।

मालसेवाकरपरिषदः सितम्बरमासस्य द्वादशदिनाङ्के आयोज्यमाना सप्तपञ्चाशत्तमी सभा ब्रिक्सशिखरसम्मेलनस्य कारणेन स्थगिता अस्ति। इदानीं सा सभा अक्टोबरमासस्य सप्तमदिनाङ्के आयोजिता भविष्यति। आधिकारिकसूत्रैः रविवासरे उक्तं यत् ब्रिक्सशिखरसम्मेलनं दृष्ट्वा मालसेवाकरपरिषदः सप्तपञ्चाशत्तमी सभा अक्टोबरमासस्य सप्तमदिनाङ्के आयोजिता भविष्यति। तद् पूर्वं पञ्चमदिनाङ्के षष्ठदिनाङ्के च अधिकारिणां सभा भविष्यति। ब्रिक्सशिखरसम्मेलनस्य कारणेन एव एषः परिवर्तनः कृतः अस्ति। पूर्वं मालसेवाकरपरिषदः सभा सितम्बरमासस्य द्वादशदिनाङ्के आयोजिता भवितुम् आसीत्, या अधुना अक्टोबरमासस्य सप्तमदिनाङ्के भविष्यति।

भारतं सितम्बरमासस्य द्वादशत्रयोदशदिनाङ्कयोः नवदिल्लीनगरे वार्षिकं ब्रिक्सशिखरसम्मेलनं आयोजयिष्यति। सम्मेलने पश्चिमएशियायाः सङ्कटस्य आर्थिकप्रभावसहितानां अनेकानां महत्त्वपूर्णानां वैश्विकचुनौतीनां विषये चर्चा भवितुम् अपेक्ष्यते। ब्रिक्सदेशेषु पूर्वं ब्राजीलदेशः, रूसदेशः, भारतदेशः, चीनदेशः, दक्षिणाफ्रिकादेशश्च सम्मिलिताः आसन्। वर्षे द्विसहस्रचतुर्विंशतितमे मिस्रदेशः, इथियोपियादेशः, ईरानदेशः, संयुक्तारबअमीरातदेशः, सऊदीअरबदेशश्च अस्य समूहस्य सदस्याः अभवन्। इण्डोनेशियादेशः वर्षे द्विसहस्रपञ्चविंशतितमे अस्य सदस्यः अभवत्।

केन्द्रीयवित्तमन्त्रिण्याः निर्मलासीतारमणस्य अध्यक्षतायां तथा राज्यवित्तमन्त्रिभिः सह गठिता मालसेवाकरपरिषदः सभा एकवर्षाधिककालानन्तरं भविष्यति। अस्याः पूर्वं परिषदः षट्पञ्चाशत्तमी सभा द्विसहस्रपञ्चविंशतितमस्य वर्षस्य सितम्बरमासस्य तृतीयचतुर्थदिनाङ्कयोः आयोजिता आसीत्। तस्मिन् समये केन्द्रसर्वकारेण राज्यसर्वकारैश्च मालसेवाकरस्य दरासु वर्गीकरणेषु च बृहद् परिवर्तनं कृतम् आसीत्।

---------------

Hindusthan Samachar / Dheeraj Maithani