हिमाचलस्य ४४ मेधाविनः बीटेक्-छात्राः जापानं प्रति प्रस्थिताः, चिकित्साशिक्षार्थिनां विदेश-परिचययात्रायै अपि सज्जता
शिमला, ०६ सेप्टेम्बरमासः (हि.स.)। हिमाचलप्रदेशसर्वकारेण राज्यस्य मेधावि-विद्यार्थिभ्यः अन्तआराष्ट्रियस्तरे तन्त्र-ज्ञानस्य कार्यसंस्कृतेश्च अनुभवः प्रदातुं प्रारब्धस्य उपक्रमस्य अन्तर्गतं अभियान्त्रिकीमहाविद्यालयानां ४४ विद्यार्थिनः जापानं प्रेषयित
मुख्यमंत्री सुक्खू


शिमला, ०६ सेप्टेम्बरमासः (हि.स.)। हिमाचलप्रदेशसर्वकारेण राज्यस्य मेधावि-विद्यार्थिभ्यः अन्तआराष्ट्रियस्तरे तन्त्र-ज्ञानस्य कार्यसंस्कृतेश्च अनुभवः प्रदातुं प्रारब्धस्य उपक्रमस्य अन्तर्गतं अभियान्त्रिकीमहाविद्यालयानां ४४ विद्यार्थिनः जापानं प्रेषयितुं प्रक्रिया प्रारब्धा अस्ति। मुख्यमन्त्रिणा सुखविन्दर-सिंहसुक्खुना रविवासरे एते विद्यार्थी आभासीयमाध्यमेन जापानस्य शैक्षणिकभ्रमणाय प्रस्थापिताः तथा तेभ्यः शुभकामनाः प्रदत्ताः।

तकनीकीशिक्षाविभागेन आयोजितम् इदं अन्तर्राष्ट्रीय-परिचयभ्रमणं ०६ सेप्टेम्बरतः १२ सेप्टेम्बरपर्यन्तं भविष्यति। विभागस्य एतत् द्वितीयम् अन्तर्राष्ट्रीय-परिचयभ्रमणम् अस्ति। इतः पूर्वं औद्योगिकप्रशिक्षणसंस्थानानां विद्यार्थिनां कृते कजाकिस्तानस्य भ्रमणम् आयोजितम् आसीत्। तस्मिन् भ्रमणे विद्यार्थिभ्यः कौशलविकासस्य विविधाः पद्धतयः वैश्विकव्यावसायिकशिक्षाव्यवस्था च अवगन्तुं अवसरः प्राप्तः आसीत्।

अस्मिन् समये प्रदेशस्य पञ्च अभियान्त्रिकीमहाविद्यालयानां बीटेक्-पाठ्यक्रमस्य मेधाविविद्यार्थिनः जापान-यात्रायै चयनिताः सन्ति। यात्रायां २४ छात्राः २० छात्राश्च सम्मिलिताः सन्ति। तकनीकीशिक्षामन्त्री राजेशधर्माणी अवदत् यत् अस्याः यात्रायै प्रायः ६५० आवेदनानि प्राप्तानि आसन् तथा विद्यार्थिनां चयनं पूर्णतया योग्यताक्रमस्य आधारेण कृतम् अस्ति।

जापाने विद्यार्थी प्रमुखानां शैक्षणिकानां, अनुसन्धानात्मकानां औद्योगिक-संस्थानानां च भ्रमणं करिष्यन्ति। तेषु टोक्यो-मेट्रोपॉलिटन-विश्वविद्यालयः, जापान-अन्तरिक्ष-अन्वेषण-संस्थायाः त्सुकुबा-अन्तरिक्ष-केन्द्रम्, साइबरडाइन-रोबोटिक्स-स्टूडियो, जेएएल्-एयरोस्पेस-निर्माणी तथा क्योसेरा-कारखाना च अन्तर्भवन्ति। विद्यार्थी ओसाकानगरस्य विभिन्नानाम् उद्योगानाम् अपि भ्रमणं करिष्यन्ति।

यात्रायाः अवधौ विद्यार्थिभ्यः अन्तरिक्ष-प्रौद्योगिक्याः, रोबोटिक्स्-प्रौद्योगिक्याः, वाय्वन्तरिक्षप्रौद्योगिक्याः, उन्नत-विनिर्माणस्य, नवाचारस्य आधुनिक-परिवहनव्यवस्थानां च विषये समीपतः अवगन्तुं अवसरः प्राप्स्यति। ते जापानस्य कार्यसंस्कृतिं, अनुशासनं, सामाजिक-मूल्यानि, तकनीकीविकासं च ज्ञास्यन्ति, तथैव तस्य देशस्य सांस्कृतिकविरासतां जीवनशैलीं च अवगन्तुम् अवसरं प्राप्स्यन्ति। कार्यक्रमे सांस्कृतिक-आदानप्रदानमपि समाविष्टम् अस्ति।

मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना उक्तं यत् राज्यसर्वकारेण सत्तायाम् आगमनानन्तरं विद्यार्थिनः नूतनैः तन्त्रज्ञानैः, नवाचारैः विश्वे प्रचलिताभिः कार्यप्रणालीभिश्च परिचिताः भवेयुरिति विशेषं ध्यानं दत्तम् अस्ति। अस्यैव क्रमे सरकारीविद्यालयानां मेधाविविद्यार्थिनः कम्बोडियादेशस्य तथा आईटीआई-संस्थानां विद्यार्थिनः कजाकिस्तानस्य परिचयभ्रमणाय प्रेषिताः आसन्।

मुख्यमन्त्रिणा उक्तं यत् अधुना चिकित्सामहाविद्यालयानां विद्यार्थिनामपि विदेशेषु परिचयभ्रमणाय प्रेषणस्य प्रक्रिया प्रारब्धा अस्ति। एतदर्थं विद्यार्थिनां चयनप्रक्रियापि आरब्धा अस्ति।

तेन जापानं प्रति गच्छद्भ्यः विद्यार्थिभ्यः उक्तं यत् अस्याः यात्रायाः माध्यमेन ते अन्तर्राष्ट्रीयकार्यसंस्कृतेः अवगमने नूतनम् अनुभवम् प्राप्स्यन्ति तथा तेषाम् आत्मविश्वासः वर्धिष्यते। स्वीयस्य व्यक्तिगतानुभवस्य उल्लेखं कुर्वन् मुख्यमन्त्रिणा उक्तं यत् विश्वविद्यालये अध्ययनकाले सः प्रथमवारं देहलीनगरं गतवान् आसीत्, परन्तु अद्य प्रदेशस्य विद्यार्थिभ्यः जापानं गन्तुम् अवसरः प्राप्यते। तेन विद्यार्थिभ्यः जापाने उपलब्धस्य शैक्षणिकस्य तकनीकीस्य च अनुभवस्य अधिकाधिकं लाभं ग्रहीतुं कथितम्।

मुख्यमन्त्रिणा जापानस्य भौगोलिक-परिस्थितीनां उल्लेखं कुर्वता उक्तं यत् एषः देशः भूकम्पदृष्ट्या संवेदनशीलः अस्ति। तथापि जापाने प्रौद्योगिक्याः विकासस्य च क्षेत्रे उल्लेखनीया प्रगतिः प्राप्ता अस्ति। तेन उक्तं यत् विद्यार्थिनां कृते तत्रत्याः तकनीकी-उपलब्धयः कार्यसंस्कृतिश्च अवगन्तुं उपयोगी अनुभवः भविष्यति।

सुक्खुना उक्तं यत् हिमाचलप्रदेशं आत्मनिर्भरं कर्तुं निर्धारितस्य लक्ष्यस्य अन्तर्गतं राज्यसर्वकारेण अनेकाः महत्त्वपूर्णाः निर्णयाः स्वीकृताः सन्ति। तेन उक्तं यत् हिमाचलः रमणीयः प्रदेशः अस्ति तथा सर्वकारस्य विभिन्नाः उपक्रमाः प्रदेशस्य आत्मनिर्भरत्वस्य दिशि महत्त्वपूर्णाः सिद्धाः भवन्ति।

Hindusthan Samachar / Divya Ranjan