Enter your Email Address to subscribe to our newsletters

नवदिल्ली/पेरिस, ०६ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयवस्त्रमन्त्रालयस्य सचिवा नीलमशमीरावः फ्रान्सदेशस्य राजधान्यां पेरिसनगरे आयोजितायां अन्ताराष्ट्रिय-व्यापारप्रदर्शिन्यां भारतीयप्रदर्शनिमण्डपे आयोजितस्य ‘हूज नेक्स्ट’-प्रदर्शनस्य उद्घाटनं कृतवती।
केन्द्रीयवस्त्रमन्त्रालयानुसारम् अस्यां प्रदर्शिन्यां भारतस्य समृद्धस्य फैशन-जगतः, हस्ततन्तु-परम्परायाः, हस्त-शिल्पस्य जीवनशैलीसम्बद्धस्य च पारिस्थितिकितन्त्रस्य सांस्कृतिकविविधता वैश्विकसामर्थ्यं च प्रमुखतया प्रदर्शितम्। यूरोपे भारतस्य सहभागितां स्थानीय-विपणिषु भारतीयउत्पादानां परिचयं च सुदृढीकर्तुं वस्त्रसचिवा डब्ल्यू.एस.एन.-संस्थायाः शीर्षनेतृत्वेन सह द्विपक्षीयं वार्तालापं कृतवती। अस्मिन् क्रमे सा डब्ल्यू.एस.एन.-संस्थायाः मुख्यकार्य-कारी-अधिकारी फ्रेडरिक् मॉस, अन्ताराष्ट्रियविकास-प्रवर्धनस्य निदेशिका सैण्ड्रिन् मेजियान् तथा व्यापारविकासस्य निदेशिका सिल्विया पोरैट् इत्येतैः सह भारतीयउत्पादानां वैश्विकनिर्यातसम्बन्धे विस्तृतं विचारविमर्शं कृतवती।
अस्मिन् वैश्विकमञ्चे चतुरशीत्यधिकाः भारतीयप्रदर्शकाः भागं गृह्णन्ति। अस्य प्रयत्नस्य प्रमुखम् उद्देश्यम् अन्ताराष्ट्रिय-क्रेतॄणां भारतीयप्रदर्शकानां च मध्ये प्रत्यक्षव्यापारिकसमन्वयं स्थापयितुम्, वैश्विकस्तरे पर्यावरणानु-कूलस्य स्थायि-फैशन इत्यस्य च प्रवर्धनं कर्तुम्, भारतस्य डब्ल्यू.एस.एन.-संस्थायाः च दीर्घकालिक-सहभागितान सुदृढां कर्तुम् च अस्ति। अनेन उदयमानानां भारतीयब्राण्ड्-संस्थानां निर्यातकानां च कृते अन्ताराष्ट्रिय-व्यापारस्य नूतनद्वाराणि उद्घाटितुं सम्भावना अस्ति।
उल्लेखनीयं यत् नीलमशमीरावः स्वस्य पेरिसप्रवासस्य अवधौ भारतीयवस्त्र-फैशन-उद्योगं वैश्विकपटलस्य नूतनानि शिखराणि नेतुम् उद्दिश्य भारत-फ्रान्स इत्यनयोः मध्ये प्रीमियर-विजन-प्रदर्शन्याः अवधौ ऐतिहासिकः सन्धि: अभवत्। भारतटेक्सटाइलट्रेडफेडरेशन तथा सृजनात्मकफैशन-वस्त्राणां कृते विश्वस्य अग्रणीमञ्चः ‘प्रीमियर-विजन एस.ए.’ इत्येताभ्यां बुधवासरे (०२ सेप्टेम्बरमासे) बहुवर्षीयस्य रणनीतिकसन्धिस्मरणपत्रे हस्ताक्षरं कृतम्।
ततः पूर्वं नीलमशमीरावः लिल-महानगरीयक्षेत्रे डेकाथलॉन-स्पोर्ट्सलैब इत्यस्य भ्रमणं कृतवती। एषा प्रयोगशाला क्रीडावस्त्राणां, कार्यक्षमतासम्बद्धानां उत्पादानां, मानवीयावश्यकताधारितस्य डिजाइन इत्यस्य च अनुसन्धानाधारित-नवाचारस्य प्रमुखं केन्द्रम् अस्ति। अस्मिन् भ्रमणे जैवयान्त्रिकी, शरीरसंरचना, गतिविज्ञानम्, तापीयसुखम्, उत्पाद-परीक्षणम् इत्येतेषु क्षेत्रेषु प्रचलितं उन्नतकार्यं प्रदर्शितम्। अनेन ज्ञातं यत् अनुसन्धानस्य प्रौद्योगिक्याश्च माध्यमेन उत्तमकार्य-प्रदर्शनयुक्ताः, सुरक्षिताः अधिकसुखदाश्च उत्पादाः निर्मातुं शक्यन्ते।
प्रवासस्य अवधौ नीलमशमीरावः फ्रान्सदेशस्य वस्त्र-अभियांत्रिकी-नवा-चारयोः प्रमुखेषु संस्थानेषु अन्यतमस्य एन्साइट्, रूबे इत्यस्य उच्चशिक्षा-अनुसन्धानसंस्थायाः च भ्रमणं कृतवती।
Hindusthan Samachar / Divya Ranjan