दुर्गापूजामण्डपस्य भूमिपूजनं सम्पन्नं, पूर्वमुख्यमन्त्री रघुवरदासः मुख्ययजमानः
पूर्वी-सिंहभूमिः, ०६ सेप्टेम्बरमासः (हि.स.)। एग्रिको-दुर्गापूजासमित्याः तत्त्वावधाने रविवासरे एग्रिको-क्लबहाउस-परिसरे अग्रिम-दुर्गापूजामहोत्सवस्य सन्दर्भे विधिवत् भूमिपूजनस्य आयोजनं कृतम्। वैदिकमन्त्राणां सस्वरपाठेन धार्मिक-विधिविधानैश्च सम्पन्ने
पूर्व मुख्यमंत्री रघुवर दास भूमि पूजन करते


पूर्व मुख्यमंत्री रघुवर दास भूमि पूजन करते


पूर्वी-सिंहभूमिः, ०६ सेप्टेम्बरमासः (हि.स.)। एग्रिको-दुर्गापूजासमित्याः तत्त्वावधाने रविवासरे एग्रिको-क्लबहाउस-परिसरे अग्रिम-दुर्गापूजामहोत्सवस्य सन्दर्भे विधिवत् भूमिपूजनस्य आयोजनं कृतम्।

वैदिकमन्त्राणां सस्वरपाठेन धार्मिक-विधिविधानैश्च सम्पन्ने भूमिपूजनेन सह अस्मिन् वर्षे भगवत्याः दुर्गायाः भव्यपूजायाः सज्जतायाः शुभारम्भः अभवत्। पूजायां झारखण्डस्य पूर्वमुख्यमन्त्री रघुवरदासः मुख्ययजमान-रूपेण सम्मिलितः।

पण्डितः आनन्दकुमारमिश्रः तथा सतीशपाठकः वैदिकमन्त्राणां सस्वरपाठेन पूजामर्चनां सम्पन्नितवन्तौ। अस्मिन् अवसरे पूजासमित्याः अध्यक्षः वाई. पी. सिंहः, महामन्त्री भूपेन्द्रसिंहः सहितं समितेः पदाधिकारिणः सदस्याश्च उपस्थिताः आसन्। पूजायां सञ्जयकुमारसिंहः, अमितोपाध्यायः, अमनसिंहः, अविनाश-गौतमप्रसादः, राहुलमुखी, कालिकासिंहः, जयशङ्करसिंहः, सतीशकुमारसिंहः, सञ्जयपाण्डेयः इत्यादयः अन्ये सदस्याः अपि सम्मिलिताः। अस्मिन् धार्मिकायोजने एग्रिको-क्षेत्रस्य बहुसङ्ख्यकाः गण्यमानाः नागरिकाः अपि उपस्थिताः आसन्।

पूजासमित्याः अध्यक्षः वाई. पी. सिंहः अवदत् यत् एग्रिको-क्षेत्रे विगतेभ्यः अष्टभ्यः वर्षेभ्यः भगवत्याः दुर्गायाः पूजा श्रद्धाभक्तिपूर्वकं क्रियते। अस्मिन् वर्षे पूजाम् अधिकां भव्याम् आकर्षिकां च कर्तुं सज्जताः क्रियन्ते। सः अवदत् यत् पश्चिमबङ्गालस्य कौटुम्बी-क्षेत्रात् शिल्पिनः आहूय प्रायः पञ्चदशलक्ष-रूप्यकाणां व्ययेन भव्यपूजामण्डपस्य निर्माणं कारयिष्यते। तदतिरिक्तं प्रायः द्विलक्षरूप्यकमूल्या भगवत्याः दुर्गायाः प्रतिमा अपि पश्चिमबङ्गालात् आनयिष्यते।

सः अवदत् यत् अस्मिन् वर्षे विशेषरूपेण प्रतिमायाः आकर्षकं स्वरूपं निर्माप्यते, येन श्रद्धालवः भगवत्याः दुर्गायाः भव्यं मनोहरं च दर्शनं प्राप्तुं शक्नुयुः। भूमिपूजनस्य सहैव पूजामण्डपस्य निर्माणस्य प्रतिमायाः सज्जतायाश्च कार्यम् आरब्धम् अस्ति। पूजासमित्याः उद्देश्यं धार्मिकश्रद्धया सह श्रद्धालूनां कृते भव्यपूजामहोत्सवस्य अनुभवप्रदानम् अस्ति।

Hindusthan Samachar / Divya Ranjan