Enter your Email Address to subscribe to our newsletters

राञ्ची, ०६ सेप्टेम्बरमासः (हि.स.)। गिरिडीहस्य विधायकः झारखण्ड-राज्यसर्वकारस्य नगरविकासमन्त्री च सुदिव्यकुमार-सोनूमहोदयः दिवंगतः। कथ्यते यत् शनिवासरे रात्रौ तस्य हृदयाघातः अभवत्। परिजनाः तं चिकित्सालयं नीतवन्तः, किन्तु तावत् तस्य निधनं जातम्। सुदिव्यसोनूमहोदयस्य निधनात् सम्पूर्णे राज्ये शोकस्य वातावरणम् अस्ति। शनिवासरे सुदिव्य-सोनूमहोदयः गिरिडीहनगरे स्वगृहे एव आसीत्। मन्त्री स्वपश्चात् द्वे पुत्र्यौ एकेन पुत्रेण सह परिपूर्णं परिवारं विहाय गतः।
सुदिव्यसोनूमहोदयस्य निधनस्य वार्ता प्राप्ते सति गिरिडीहनगरे शोकः व्याप्तः। झारखण्डमुक्तिमोर्चायाः कार्यकर्तृषु शोकस्य तरंग: अस्ति। शताधिकाः कार्यकर्तारः तस्य गृहम् आगताः सन्ति। सूचना अस्ति यत् राज्यस्य मुख्यमन्त्री, सर्वे मन्त्रिणः विधायकाश्च गिरिडीहम् आगमिष्यन्ति।
झारखण्डमुक्तिमोर्चायाः केन्द्रीयमहासचिवः विनोदपाण्डेयः कार्यालयात् सूचितवान् यत् दलस्य केन्द्रीयकार्यकारिणीसदस्यः मन्त्री च सुदिव्यकुमारः ‘सोनू’ आकस्मिकरूपेण दिवंगतः। अस्मिन् दुःखदसमये दलस्य सर्वेषां स्तराणां नेतारः कार्यकर्तारश्च मर्माहताः शोकसन्तप्ताश्च सन्ति।
सः दलस्य सर्वेभ्यः जनपदाध्यक्षेभ्यः, जनपदसचिवेभ्यः, जनपदसंयोजक-प्रमुखेभ्यः, महानगराध्यक्षेभ्यः महानगर-संयोजकेभ्यश्च निर्देशं दत्तवान् यत् राज्यस्य सर्वेषु खण्डमुख्यालयेषु अग्रिमदिने आयोज्यमानं एकदिवसीयं विरोधप्रदर्शनम् अग्रिमादेशपर्यन्तं स्थगितं भवति।
Hindusthan Samachar / Divya Ranjan