Enter your Email Address to subscribe to our newsletters

मण्डी, ०६ सेप्टेम्बरमासः (हि.स.)। भारतसर्वकारस्य कौशलविकास-उद्यमितामन्त्रालयेन सञ्चालितेन जनशिक्षणसंस्थानेन, मण्डीस्थेन, सरदार-पटेलविश्वविद्यालये कौशल-दीक्षान्त-समारोहः आयोजितः। अस्मिन् विशेषावसरे हिमाचलप्रदेशस्य पूर्व-मुख्यमन्त्री प्रतिपक्षनेता च जयरामठाकुरः मुख्या-तिथिरूपेण समुपस्थितः अभवत्। सः विभिन्नेषु व्यवसायेषु सफलतया कौशलप्रशिक्षणं प्राप्तवद्भ्यः प्रतिभा-शालिभ्यः युवभ्यः प्रमाणपत्राणि प्रदाय सम्मानितवान्। कार्यक्रमे विद्याभारत्याः उत्तरक्षेत्रस्य सङ्गठनमन्त्री विजयः नड्डा, जनशिक्षण-संस्थानस्य मण्डी-अध्यक्षः मोहनसिंह-केशठा, उपाध्यक्षः तारिकासेन तथा शिक्षासमित्याः अध्यक्षः ज्ञानः अपि विशेषरूपेण उपस्थिताः आसन्।
समारोहस्य समये प्रशिक्षितानां यूनाम् उज्ज्वलभविष्यस्य कामनां कुर्वन् जयरामठाकुरः तेभ्यः आत्मनिर्भरत्वं प्राप्तुं तथा ‘विकसितभारत-२०४७’ इति राष्ट्रियलक्ष्ये योगदानं दातुं प्रेरणां प्रदत्तवान्। समारोहं सम्बोधयन् पूर्वमुख्यमन्त्री जयरामठाकुरः अवदत् यत् अद्यतनः कालः कौशलाधारितशिक्षायाः अस्ति। केवलं पदवीं प्राप्तुमेव पर्याप्तं नास्ति, अपि तु कौशलसम्पन्नः भवितुम् आवश्यकम् अस्ति। कौशलाधारिता शिक्षा यूनः स्वावलम्बिनः करोति, येन ते स्वयमेव स्वरोजगारं प्राप्तुं तथा अन्येभ्यः अपि रोजगारस्य अवसरान् प्रदातुं समर्थाः भवन्ति।
जनशिक्षणसंस्थानस्य मण्डी-प्रदर्शने सन्तोषं प्रकटयन् प्रतिपक्षनेता तथ्याङ्कान् प्रकाशितवान् यत् वर्षे २०२१ तमे संस्थानस्य स्थापनानन्तरं २०२१-२२ तमात् वर्षात् अद्यावधि ९,२८८ युवानः सफलतया प्रशिक्षिताः सन्ति। अस्मिन् सर्वाधिकं प्रशंसनीयं तथ्यं यत् प्रशिक्षणं प्राप्तवत्सु अधिकांशाः ग्रामीणक्षेत्रेषु निवसन्त्यः महिलाः वञ्चितवर्गीयाः च प्रतिभागिनः सन्ति। जनशिक्षणसंस्थानेन सौन्दर्य-वर्धनम्, स्वास्थ्य-संवर्धनम्, खाद्य-प्रसंस्करणम्, हस्तशिल्पम्, स्वास्थ्यसेवा इत्यादिषु आधुनिकेषु पारम्परिकेषु च क्षेत्रेषु स्थानीयानां आवश्यकतानाम् अनुरूपं कौशलं प्रदीयते।
स्वकीयसम्बोधने जयरामठाकुरः स्वपूर्व-सर्वकारस्य योजनानाम् उल्लेखं कुर्वन् अवदत् यत् मुख्यमन्त्रित्वकाले तेन प्रदेशे कौशलविकासस्य प्रोत्साहनं कृतम् तथा ‘मुख्यमन्त्री स्वावलम्बनयोजना’ प्रारब्धा आसीत्, येन युवभ्यः स्वव्यवसायस्य प्रारम्भाय अवसराः प्राप्नुयुः। किन्तु वर्तमानायाः काङ्ग्रेससर्वकारस्य आलोचनां कुर्वन् सः खेदं प्रकटितवान् यत् एषा कल्याणकारी योजना निरस्ता अस्ति, येन राज्ये नूतनानां रोजगारावसराणां सृजने प्रतिकूलः प्रभावः अभवत्।
Hindusthan Samachar / Divya Ranjan