Enter your Email Address to subscribe to our newsletters

रायपुरम्, 6 सितंबरमासः (हि.स.)।
छत्तीसगढस्य समृद्धानां लोकपरम्पराणां, लोकगाथानां पारम्परिकसांस्कृतिकधरोहरस्य च मञ्चं प्रदातुम् उद्देशेन छत्तीसगढशासनस्य संस्कृतिविभागेन ‘विभागीयआयोजनम् २०२६’ इत्यस्य अन्तर्गतं त्रिदिवसीयस्य ‘लोकरङ्गपर्वणः’ आयोजनं क्रियते। अयं सांस्कृतिककार्यक्रमः अद्य रविवासरात् आरभ्य सितम्बरमासस्य अष्टमदिनाङ्कपर्यन्तं रायपुरस्य सिविललाइन्सस्थितस्य महन्तघासीदाससङ्ग्रहालयपरिसरस्य मुक्ताकाशीयमञ्चे भविष्यति। कार्यक्रमः प्रतिदिनं सायं सप्तवादनतः प्रारप्स्यते।
‘लोकरङ्गपर्वणि’ छत्तीसगढस्य विविधाः लोककलाः एकस्मिन् एव मञ्चे प्रस्तुताः भविष्यन्ति। त्रिदिनपर्यन्तं लोकगाथायाः, लोकनाट्यस्य, लोकगीतस्य लोकनृत्यस्य च मनोहारिण्यः प्रस्तुतयः भविष्यन्ति। एताभिः प्रस्तुतिभिः छत्तीसगढस्य मृत्तिकायाः सुगन्धः सांस्कृतिकपरिचयश्च जीवन्तः भविष्यतः।
आयोजने भरथरी, पण्डवानी, ढोलामारू, लोरिकचन्दा, नाचा गम्मत इत्येतानां प्रस्तुतयः विशेषाकर्षणानि भविष्यन्ति। तदनन्तरं सुवा, करमा पन्थी इत्यादीनि पारम्परिकलोकनृत्यानि अपि दर्शकान् छत्तीसगढस्य लोकजीवनेन संयोजयिष्यन्ति।
बाँसगीतं, देवारगीतं, ददरिया, जसगीतं संस्कारगायनं च इत्यादीनां लोकपारम्परिकगायनशैनीनां प्रस्तुतयः प्रदेशस्य सांस्कृतिकविविधतां लोकपरम्पराणां गाम्भीर्यं च प्रकाशयिष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani