Enter your Email Address to subscribe to our newsletters

— मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः यूएई-देशं प्राप्तवान्, अवदत्— तस्य यात्रया द्विपक्षीयसम्बन्धाः सुदृढाः भविष्यन्ति
भोपालम्, ०६ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् व्यापारस्य, वाणिज्यस्य, उद्योगस्य च क्षेत्रेषु भारतं द्रुतगतिना अग्रे वर्धते। मध्यप्रदेशमपि पदे पदे सहगच्छन् अस्मिन् क्षेत्रे कार्यं करिष्यति। वैश्विकस्तरे निवेशस्य सम्भावनाः साकारयितुं सः मध्यप्रदेशात् संयुक्तारब-अमीरात्-देशस्य यात्रायै आगतः अस्ति। प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतं द्रुतगत्या आर्थिकशक्तिरूपेण परिणमति। तस्य यूएई-यात्रया द्विपक्षीयसम्बन्धाः सुदृढाः भविष्यन्ति।
मुख्यमन्त्री डॉ. यादवः रविवासरे यूएई-देशं प्राप्ते सति वार्तामाध्यमप्रतिनिधिभिः सह वार्तालापं कुर्वन् आसीत्। सः अवदत् यत् भारतं यथा विश्वस्य विभिन्नैः देशैः सह स्वसम्बन्धान् सुदृढीकृत्य द्रुतगतिना अग्रे वर्धते। अस्माकं देशः पारदर्शिन्या सरलीकृतव्यवस्थया शुचिताबलेन च व्यापारवाणिज्यक्षेत्रे द्रुतगत्या पदानि अग्रे स्थापयति। राज्येष्वपि स्वस्थप्रतिस्पर्धा अस्ति। एषः स्वर्णिमः कालः अस्ति।
सः अवदत् यत् प्रधानमन्त्रीमोदिनः नेतृत्वे विभिन्नैः देशैः सह व्यापारवाणिज्यसम्बद्धासु गतिविधिषु वृद्धिः अभवत्। निवेशप्रयासेषु मध्यप्रदेशोऽपि पदे पदे सहगच्छन् अग्रे वर्धते। अधुना मध्यप्रदेशस्य निर्यातः निरन्तरं वर्धते। गतवर्षे एव मध्यप्रदेशात् ७६ सहस्रकोटिरूप्यकाणां निर्यातः अभवत्।
मुख्यमन्त्री अवदत् यत् अस्माकं लक्ष्यं वर्तते यत् रसदव्यवस्थायां, खनने, कृषौ, भू-सम्पदाक्षेत्रे च सहितं प्रत्येकस्मिन् क्षेत्रे निवेशः आगच्छेत्, व्यापारः वर्धेत, प्रदेशस्य युवभ्यः रोजगारस्य नवीनाः अवसराः च सृज्येरन्। निश्चयेन यूएई-मध्यप्रदेशयोः मध्ये व्यापारिकसम्बन्धाः नवीनां ऊर्ध्वतां प्राप्स्यन्ति तथा निवेशकाः मध्यप्रदेशस्य विकासयात्रायां सहभागिनः भविष्यन्ति।
मुख्यमन्त्री दुबईनगरे वैश्विकनिवेशकानां समक्षं मध्यप्रदेशस्य विकासस्य निवेश-सम्भावनाश्च प्रस्तोष्यति
जनसम्पर्काधिकारी सञ्जयदुबे इत्यनेन कथितं यत् मुख्यमन्त्री डॉ. यादवः ०९ सेप्टेम्बर् २०२६ पर्यन्तं संयुक्तारब-अमीरात्-देशस्य यात्रायां स्थास्यति। मुख्यमन्त्रिणः नेतृत्वे एकं उच्चस्तरीयं प्रतिनिधिमण्डलं दुबईनगरे एआईएम-काङ्ग्रेस-२०२६ इत्यस्मिन् सहभागं करिष्यति। मुख्यमन्त्री दुबईनगरे वर्ल्ड्-ट्रेड्-सेन्टर इत्यत्र आयोजितायाम् एआईएम्-काङ्ग्रेस्-२०२६ इत्यस्यां मध्यप्रदेशस्य निवेशक्षमतां, औद्योगिकाधारं, विभिन्नेषु क्षेत्रेषु उपलब्धाः निवेशावसराः च वैश्विक-उद्योगजगतः समक्षं प्रस्तोष्यति। यात्राकाले ‘इन्वेस्ट् मध्यप्रदेश’ इति विषये विशेषसत्रमपि प्रस्तावितम् अस्ति, यस्मिन् मुख्यमन्त्री राज्यस्य निवेशानुकूलवातावरणस्य औद्योगिकविकासस्य सम्भावनानां च विषये प्रकाशं पातयिष्यति।
मुख्यमन्त्री डॉ. यादवः अवदत् यत् मध्यप्रदेशः भारतस्य द्रुतगत्या उद्भवमानेषु औद्योगिकेषु निवेशगन्तव्येषु च स्वस्य सुदृढां परिचितिं निर्माति। राज्ये उपलब्धाः संसाधनाः, उत्तमाः आधारभूतसंरचनाः, उद्योगानुकूलं वातावरणं, निवेशकेभ्यः विकसिताः सुविधाश्च प्रदेशं निवेशाय आकर्षकं कुर्वन्ति। अस्माकं प्रयासः अस्ति यत् वैश्विकनिवेशकैः सह सुदृढां सहभागितां स्थापयित्वा मध्यप्रदेशस्य औद्योगिक-विकासः नूतनानि शिखराणि प्राप्नुयात्।
सः अवदत् यत् दुबईयात्रा मध्यप्रदेशस्य संयुक्तारब-अमीरात्-देशस्य च मध्ये आर्थिक-औद्योगिकसहयोगं अधिकं सुदृढं कर्तुं अवसरं प्रदास्यति। वैश्विकनिवेशकैः उद्योगसमूहैश्च सह भविष्यन्त्यः सभाः प्रदेशे नूतनानां निवेशानां रोजगारावसराणां च सृजने महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति। तस्य यात्रायाः एकं महत्त्वपूर्णं प्रयोजनं जनवरी २०२७ तमे वर्षे भोपालनगरे प्रस्तावितस्य ग्लोबल-इन्वेस्टर्स-समिट्-२०२७ इत्यस्य कृते अन्ताराष्ट्रिय-स्तरे सम्पर्कं सहभागितां च वर्धयितुमपि अस्ति। यात्राकाले संयुक्तारब-अमीरात्-सर्वकारं ग्लोबल-इन्वेस्टर्स-समिट्-२०२७ इत्यस्मिन् सहभागिदेशरूपेण आमन्त्रयितुं प्रयासाः क्रियन्ते।
मुख्यमन्त्री एआईएम्-काङ्ग्रेस्-समारोहस्य उद्घाटनकार्यक्रमे, वैश्विक-नेतृत्वसम्बद्धेषु कार्यक्रमेषु, विभिन्नेषु निवेश-व्यावसायिक-समागमेषु च सहभागं करिष्यति। सः मध्यप्रदेशमण्डपस्य अवलोकनमपि करिष्यति तथा वैश्विक-निगमसमूहैः सह प्रत्यक्षं व्यक्तिगतसमागमं कृत्वा मध्यप्रदेशे निवेशस्य सम्भावनानां विषये चर्चां करिष्यति। दुबईयात्राकाले सर्वकारीय-व्यावसायिकस्तरीयसभाभिः सह राष्ट्रप्रमुखैः संस्थागतनिवेशकैश्च सह गोलमेजसभापि प्रस्ताविता अस्ति। एतासु सभासु मध्यप्रदेशे निवेशस्य नवीन-सम्भावनानां दीर्घकालिक-आर्थिक-सहभागिताविषये च चर्चा भविष्यति।
मुख्यमन्त्री डॉ. यादवस्य आतिथ्ये व्यावसायिकनेतॄणां मध्याह्नभोजन-कार्यक्रमः निवेशकैः सह संवादकार्यक्रमश्चापि प्रस्तावितौ स्तः। ०८ सेप्टेम्बर-दिनाङ्के ‘इन्वेस्ट मध्यप्रदेश : इन्टरएक्टिव सेशन’ इति कार्यक्रमस्य माध्यमेन चयनितैः वैश्विकनिवेशकैः उद्योगजगतः प्रतिनिधिभिश्च सह प्रत्यक्षसंवादस्य अवसरः प्राप्स्यते। अस्मिन् अवसरे मध्यप्रदेशस्य औद्योगिकनीतीनां, निवेशानुकूलवातावरणस्य, विभिन्नेषु उदयमानेषु क्षेत्रेषु उपलब्धानां अवसरानां च प्रमुखतया प्रस्तुतिकरणं भविष्यति।
सः अवदत् यत् मध्यप्रदेशसर्वकारस्य लक्ष्यं केवलं निवेशम् आकर्षितुं नास्ति, अपितु निवेशकैः सह दीर्घकालिकां विश्वसनीयां च सहभागितां स्थापयितुम् अस्ति। प्रदेशे निवेशस्य माध्यमेन उद्योगानां विस्तारं, रोजगारसृजनं, समावेशी-आर्थिकविकासं च गतिं दातुं सर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति।
Hindusthan Samachar / Divya Ranjan