Enter your Email Address to subscribe to our newsletters

— २.१२ कोटिरूप्यकाणां व्ययेन जीर्णो-द्धारकार्यं प्रचलितम् आसीत्
उज्जयिनी, ०६ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां सिंहस्थ-कुम्भस्य २०२८ तमस्य वर्षस्य सज्जतायाः मध्ये शनिवासरस्य अर्धरात्रे महाकालेश्वर-मन्दिरात् रामघट्टं प्रति गच्छति प्राचीनमार्गे स्थितं ऐतिहासिकं महाकालद्वारं सहसा भग्नं भूत्वा अपतत्। घटनायाः समये द्वारस्य समीपे कोऽपि जनः उपस्थितः नासीत्, अतः जनहानिः न अभवत्।
घटनायाः सूचना प्राप्य रविवासरे प्रातः स्मार्टसिटी-संस्थायाः अधिकारिणः घटनास्थलं प्राप्य निरीक्षणं कृतवन्तः। अधिकारिभिः उक्तं यत् नगरे सिंहस्थस्य सज्जतायै निर्माणकार्याणि प्रचलन्ति। महाकालद्वारस्य समीपे निर्माणकार्यस्य समये गभीरं खननं क्रियते। विगतेषु द्वित्रेषु दिवसेषु निरन्तरं वृष्टेः कारणेन मृत्तिकायां आर्द्रता वर्धिता तथा भूमेः अधः स्थापनस्य कारणेन द्वारस्य संरचना प्रभाविता अभवदिति आशङ्का अस्ति। तथापि दुर्घटनायाः वास्तविकं कारणं निरीक्षणान्तरमेव स्पष्टं भविष्यति।
कार्यपालनयन्त्रिणा कमलसक्सेना-महोदयेन उक्तं यत् प्रारम्भिकसूचनानुसारं दुर्घटना रात्रौ अभवत्। समीपे गभीरखननस्य कार्यं प्रचलितम् आसीत् तथा निरन्तरं वृष्टिरपि अभवत्। अतः भूमेः धसनेन, अर्थात् भूमिस्थापनस्य कारणेन, द्वारस्य पतनस्य आशङ्का अस्ति। तेन उक्तं यत् दुर्घटनायां कस्यापि प्रकारस्य जनहानिः अन्यहानिश्च न अभवत्।
उल्लेखनीयं यत् श्रीमहाकालेश्वरमन्दिरस्य उत्तरदिशि प्रायः शतमीटरमिते दूरे स्थितं स्थानम् ‘महाकालद्वारम्’ इति नाम्ना प्रसिद्धम् अस्ति। एतद् ऐतिहासिकद्वारं प्रायः चतुर्दशशताब्द्याः प्रारम्भकालस्य निर्मितिम् इति मन्यते। एतत् रामघाटं प्रति गच्छतः प्राचीनमार्गस्य महत्त्वपूर्णम् अङ्गम् अस्ति। अस्य निर्माणं बेसाल्ट्-शिलाभिः इष्टिकाभिश्च कृतम् अस्ति।
उज्जयिनी-स्मार्टसिटी-लिमिटेड्-संस्थायाः महाकालमन्दिरपरिसरविस्तारपरियोजनायाः अन्तर्गतं प्रायः २.१२ कोटिरूप्यकाणां व्ययेन अस्य जीर्णोद्धारकार्यं प्रचलितम् आसीत्। अस्य द्वारस्य जीर्णोद्धारे आधुनिकसीमेन्ट्-मिश्रणस्य स्थाने पारम्परिकचूर्णितचूना-प्रविधेः प्रयोगः क्रियमाणः आसीत्। चन्देरी-ललितपुराभ्यां आगताः शिल्पिनः चूनेन, गुडेन, मेथिकया, गुग्गुलेन, उदकमध्ये निमज्जितेन माषेन, इष्टिकाचूर्णेन सिकताभिश्च निर्मितेन पारम्परिकमिश्रेण निर्माणकार्यं कुर्वन्तः आसन्। शिल्पिनां कथनानुसारम् एषा प्रविधिः ऐतिहासिकसंरचनानां दीर्घकालं यावत् दृढतां प्रददाति।
कथ्यते यत् महाकालद्वारं ऐतिहासिक-दृष्ट्या धार्मिकदृष्ट्या च महत्त्वपूर्णम् अस्ति तथा मध्यकालादेव रामघाटस्य महाकालमन्दिरस्य च मध्ये सम्पर्क-मार्गरूपेण प्रयुज्यमानम् अस्ति। द्वारस्य पतनानन्तरं सम्प्रति निर्माणस्य गुणवत्ता, समीपे प्रचलितं खननकार्यं भूमेः स्थितिश्च विषये निरीक्षणकार्यं क्रियमाणम् अस्ति।
महाकालद्वारपरिसरे मेहराबयुक्तं प्रवेशद्वारम्, प्रस्तरनिर्मिताः सोपानाः, मन्दिरात् प्राप्तानां नक्काशीयुक्तानां प्रस्तरखण्डानाम् अवशेषाः तथा एकः प्राचीनमार्गश्च विद्यन्ते। शताब्दीभ्यः स्थानीयजनैः तीर्थयात्रिभिश्च एतस्य द्वारस्य उपयोगः रामघाटं श्रीमहाकालेश्वरमन्दिरेण सह संयोजयतः मार्गस्य रूपेण क्रियते स्म। अस्य स्थापत्यविशेषताभ्यः ज्ञायते यत् मध्ययुगे देहलीनगरस्य तृतीयसुल्तानेन कृतस्य विध्वंसस्य अनन्तरम् अस्य स्थलस्य विभिन्नेषु कालखण्डेषु जीर्णोद्धारः अभवत्। अष्टादशतमे शताब्द्यां सिन्धियाशासनकाले तथा आधुनिककाले सिंहस्थकुम्भस्य (२००४) समयेऽपि अत्र पुनरुद्धारकार्याणि कृतानि। ततः २०२१ तमे वर्षे उज्जयिनी-स्मार्टसिटी-लिमिटेड्-संस्थया योजनान्तर्गतं महाकालद्वारस्य पुनर्विकासः कृतः। उज्जयिन्याः महत्त्वपूर्णेषु सांस्कृतिक-ऐतिहासिकधरोहरस्थलेषु अस्य विशेषं महत्त्वम् अस्ति।
Hindusthan Samachar / Divya Ranjan