Enter your Email Address to subscribe to our newsletters

रायसेनम्, ०६ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयकृषिमन्त्री ग्रामविकासमन्त्री च शिवराजसिंहचौहानः अद्य रविवासरे मध्यप्रदेशस्य रायसेनजनपदस्य प्रवासे भविष्यति। अस्मिन् प्रवासे सः मण्डीदीपे औबेदुल्लागञ्जे च आयोजितेषु विभिन्नेषु कार्यक्रमेषु भागं ग्रहीष्यति।
निर्धारितकार्यक्रमानुसारं केन्द्रीयमन्त्री चौहानः भोपालात् प्रस्थाय प्रातः १०.३० वादने मण्डीदीपस्थितं नागरिक-चिकित्सालयं प्राप्स्यति तथा च तत्र वृक्षारोपणस्य अन्येषु च कार्यक्रमेषु भागं ग्रहीष्यति। ततः सः प्रातः ११.१५ वादने कृषिउत्पादमण्डीपरिसरं प्राप्स्यति तथा च तत्र आयोजिते शिक्षक-प्रतिभा-सम्मानसमारोहे भागं ग्रहीष्यति।
केन्द्रीयकृषिमन्त्री अपराह्णे ०१.०० वादने औबेदुल्लागञ्जस्थितं शासकीय-सान्दीपनि-विद्यालयं प्राप्स्यति तथा च तत्र लोकार्पण-भूमिपूजनकार्यक्रमे मेधावी-छात्रवृत्तिकार्यक्रमे च भागं ग्रहीष्यति। केन्द्रीयकृषिमन्त्री अपराह्णे ०३.०० वादने सान्दीपनि-विद्यालयात् भोपालाय प्रस्थास्यति।
Hindusthan Samachar / Divya Ranjan