Enter your Email Address to subscribe to our newsletters

उज्जयिनी, ०६ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थितस्य विश्वप्रसिद्धस्य ज्योतिर्लिङ्गस्य भगवत: महाकालेश्वरस्य भव्यराजसीसवारी अस्मिन् वर्षे रेडियो-प्रसारणस्य माध्यमेन देश-विदेशेभ्यः श्रद्धालुभ्यः विशेषरूपेण प्रापयिष्यते। आकाशवाणी-उज्जयिनी-द्वारा सोमवासरे, ०७ सेप्टेम्बर-दिनाङ्के, अपराह्णे द्विवादनतः रात्रौ दशवादनपर्यन्तं सततं अष्टहोरा बाबा-महाकालस्य राजसी-सवार्याः विशेषं सजीवप्रसारणं करिष्यते। एतत् प्रसारणं मध्यप्रदेशस्य सर्वेभ्यः आकाशवाणीकेन्द्रेभ्यः एकस्मिन् समये प्रसारयिष्यते।
आकाशवाणी-उज्जयिन्याः कार्य-क्रमाधिकारी ब्रह्मप्रकाशचतुर्वेदी रविवासरे सूचनां दत्त्वा अवदत् यत् रेडियो-प्रसारणस्य इतिहासे गैर-क्रीडागतिविधीनां क्षेत्रे एतावद्दीर्घकालपर्यन्तं सततं सजीव-प्रसारणस्य एषः अपूर्व उपक्रमः अस्ति। प्रसारणकाले बाबा-महाकालस्य राजसी-सवार्याः सम्पूर्णमार्गस्य, विभिन्न-विश्रामस्थलानां, धार्मिकानुष्ठानानां, परम्पराणां तथा श्रद्धालूनां श्रद्धायाः च प्रत्यक्षविवरणं प्रस्तोष्यते।
आकाशवाणी-उज्जयिन्याः कार्यक्रम-प्रमुखा अनामिकाचक्रवर्ती अवदत् यत् एतत् विशेषप्रसारणं ‘वर्ल्ड बुक ऑफ रिकॉर्ड्स’ तथा ‘लिम्का बुक ऑफ रिकॉर्ड्स’ इत्येतयोः अभिलेखयोः समा-वेशार्थं नामाङ्कितम् अस्ति। अनुभवी उद्घोषकानां तथा समालोचकानां दलं सवार्याः प्रत्येकं महत्त्वपूर्णस्य क्रिया-कलापस्य सजीवं भावपूर्णं च वर्णनं करिष्यति।
सा अवदत् यत् अस्य विशेषप्रसारणस्य उद्देश्यम् उज्जयिन्याः समृद्धां आध्यात्मिकीं सांस्कृतिकीं च परम्परां देश-विदेशयोः लक्षशः श्रोतृभ्यः प्रापयितुम् अस्ति। ये श्रद्धालवः प्रत्यक्षरूपेण राजसीसवार्यां सम्मिलितुं न शक्नुवन्ति, तेऽपि रेडियो-माध्यमेन गृहे स्थित्वा बाबा-महाकालस्य सवार्याः दिव्यानुभवं प्राप्तुं शक्नुवन्ति।
मुख्यमन्त्रिणः डॉ. मोहनयादवस्य परिकल्पनानुरूपं महाकालस्य सवारिषु कृतानां नवाचाराणां तथा अग्रिम-सिंहस्थस्य झलकम् अपि अस्मिन् आयोजने द्रष्टुं लप्स्यते। आकाशवाण्याः एषः उपक्रमः बाबा-महाकालस्य राजसी-सवार्याः व्यापकस्तरे जनं जनं प्रति प्रसारणस्य दिशि महत्त्वपूर्णं पदम् इति मन्यते। श्रद्धालवः एफ.एम. १०२.५ मेगाहर्ट्ज्, ‘न्यूज ऑन एयर’ इति चलदूरभाष-अनुप्रयोगस्य माध्यमेन प्रसारणं श्रोतुं शक्नुवन्ति। तदतिरिक्तं चलदूरभाषे गूगले ‘आकाशवाणी उज्जैन लाइव’ इति अन्विष्य अपि सजीवप्रसारणेन सम्बद्धुं शक्यते।
सोमवासरे भगवत: महाकालस्य शाहीसवारी, सप्तस्वरूपेषु भक्तेभ्यः दर्शनं दास्यति
उज्जयिन्यां श्रावण-भाद्रमासयोः निर्गच्छन्तीनां सवारीणां क्रमे अन्तिमा शाहीसवारी सोमवासरे, ०७ सेप्टेम्बर-दिनाङ्के, निर्गमिष्यति। अस्मिन् अवसरे अवन्तिकानाथः नगरस्य भ्रमणं कृत्वा स्वप्रजायाः कुशलक्षेमं ज्ञास्यति। सवार्याः समये बाबा-महाकालः भक्तेभ्यः सप्तसु पृथक् पृथक् स्वरूपेषु दर्शनं दास्यति।
मन्दिरप्रबन्धनसमित्याः अनुसारं बाबा-महाकालस्य राजसीसवार्यां रजतपालक्यां श्रीचन्द्रमौलेश्वरः, गजराजस्य उपरि श्रीमनमहेशः, गरुडरथे शिवताण्डव-स्वरूपम्, नन्दीरथे उमामहेशः तथा डोलरथे होल्कर-स्टेट इत्यस्य मुखारविन्दम्, श्रीघटाटोपमुखौटास्वरूपं तथा सप्तमसवार्यां श्रीसप्तधानस्य मुखारविन्दं सम्मिलितं भविष्यति।
सवारी निर्गमनात् पूर्वं महाकालेश्वर-मन्दिरस्य सभामण्डपे भगवान् श्रीचन्द्रमौलेश्वरस्य पूजाऽर्चना भविष्यति। पूजानन्तरं रजतपालक्यां विराजमानः भगवान् महाकालः प्रजायाः कुशलक्षेमं ज्ञातुं नगरभ्रमणाय निर्गमिष्यति। मन्दिरस्य मुख्यद्वारे पालक्यां विराजमानाय भगवान् श्रीचन्द्रमौलेश्वराय सशस्त्रसलामी प्रदास्यते।
श्रीचन्द्रमौलेश्वरस्य पालकी निर्धारितसमये सायं चतुर्वादने प्रारभ्य महाकालघाटी, गुदरीचतुष्पथः, पानदरीबा, कहारवाडी तथा रामानुजकोट इत्येतेषु मार्गेषु गत्वा रामघाटं प्राप्स्यति। रामघाटे पालक्यां विराजमानस्य भगवत: चन्द्रमौलेश्वरस्य तथा गजराजस्य उपरि आरूढस्य मनमहेशस्य शिप्रानदीयजलेन पूजाऽर्चना करिष्यते। आरत्यनन्तरं सवारी गणगौरद्वारम्, कार्तिकचौकम्, ढाबामार्गम्, कमरीमार्गम्, टङ्कीचौकम्, तेलीवाडा, कण्ठालः, सतीद्वारम्, खडाहनुमान् तथा गोपालमन्दिरं प्राप्स्यति। अत्र सिन्धिया-स्टेट्-पक्षतः पूजानन्तरं सवारी पटनीविपणम्, गुदरी तथा महाकाल-घाटीमार्गेण पुनः महाकालेश्वरमन्दिरं प्राप्स्यति।
Hindusthan Samachar / Divya Ranjan