Enter your Email Address to subscribe to our newsletters

भोपालम्, 06 सितंबरमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः अवदत् यत् अर्धचालकक्षेत्रे आत्मनिर्भरभारतस्य सङ्कल्पाय नूतनां गतिं प्रदातुं प्रदेशः अग्रणीं भूमिकां निर्वोढुं सज्जः अस्ति।
मुख्यमन्त्री डा यादवः रविवासरे सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशिते सन्देशे अवदत् यत् राज्ये अत्याधुनिकप्रौद्योगिक्यै निवेशाय नवाचाराय च अनुकूलं वातावरणं निर्मीयते, येन मध्यप्रदेशः देशस्य उद्भवमानस्य अर्धचालकतन्त्रस्य महत्वपूर्णं केन्द्रं भवितुं शक्नुयात्।
सः अवदत् यत् अर्धचालकप्रौद्योगिकी भारतस्य आत्मनिर्भरस्य विकसितस्य च भविष्यस्य आधारशिला अस्ति। देशे प्रौद्योगिकीक्षेत्रे जायमानासु परिवर्तनोन्नतिषु मध्यप्रदेशः अपि सहभागी भवति। अर्धचालकभारतकार्यक्रमस्य द्वितीयचरणे मध्यप्रदेशः स्वां भूमिकां सुदृढां करोति। केन्द्रसर्वकारेण षड्राज्येषु द्वादश अर्धचालकपरियोजनानां अनुमोदनं कृत्यानन्तरम् अस्मिन् क्षेत्रे देशस्य प्रगतिः तीव्रा अभवत्।
मुख्यमन्त्री डा यादवः अवदत् यत् मध्यप्रदेशः स्वकीयाभिः नीतिगतपहलाभिः, निवेशानुकूलवातावरणेन, औद्योगिकक्षमतया च अस्य राष्ट्रियाभियानस्य नूतनां ऊर्ध्वतां प्रदास्यति।
उल्लेखनीयमस्ति यत् इन्दौरनगरे आगामिमासस्य २३ तथा २४ दिनाङ्कयोः एमपी अर्धचालकशिखरसम्मेलनम् २०२६ इत्यस्य आयोजनं क्रियमाणम् अस्ति। शिखरसम्मेलने देशविदेशेभ्यः निवेशकाः, प्रौद्योगिकिविशेषज्ञाः, नीतिनिर्मातारश्च एकस्मिन् मञ्चे समागमिष्यन्ति। अत्र प्रदेशे सुदृढस्य अर्धचालकतन्त्रस्य विकासः, निवेशस्य सम्भावनाः, प्रौद्योगिकीसहयोगः, औद्योगिकविस्तारश्च इत्येतेषु विषयेषु व्यापकं विचारमन्थनं भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani