Enter your Email Address to subscribe to our newsletters

मण्डी, ०६ सेप्टेम्बरमासः (हि.स.)। रोटरी-क्लब-छोटी-काशी-मण्डी इत्यस्य पक्षतः रविवासरे अष्टौ शासकीयविद्यालयानां शिक्षकाः ‘नेशन बिल्डर अवार्ड’-पुरस्कारेण सम्मानिताः। शिक्षाक्षेत्रे, विद्यार्थिनां सर्वाङ्गीणविकासे, सामाजिकदायित्वेषु तथा विद्यालयस्तरे उल्लेखनीययोगदानस्य कृते शिक्षकान् एतेन सम्मानेन सम्मानितम्।
सम्मानितेषु शिक्षकेषु जी.एस.एस.एस. शिवाबदारस्य टी.जी.टी. मेडिकल सुशीलकुमारः, जी.एस.एस.एस. बरोडस्य हिन्दीप्रवक्त्री निशाठाकुरः, जी.एस.-एस.एस. साईगलू इत्यस्य सङ्गणक-विज्ञानप्रवक्ता दर्शनलालः, जी.एस.एस.एस. कटिण्डी इत्यस्य हिन्दीप्रवक्त्री हर्षणाबहलः, राजकीय-उच्चविद्यालयस्य रत्त्याः टी.जी.टी. आर्ट्स सुषमाकुमारी, जी.एस.एस.एस. शिवाब-दारस्य रसायनविज्ञानप्रवक्ता सुरेशकुमारः, जी.एस.एस.एस. टाण्डू इत्यस्य आङ्ग्लभाषाप्रवक्त्री सुनीता तथा राजकीय-बी.एस.एल.-वरिष्ठ-माध्यमिकविद्यालयस्य, बी.बी.एम.बी. कॉलोनी, सुन्दरनगरस्य टी.जी.टी. गणितविषयस्य ज्योति इत्येताः सम्मिलिताः आसन्। सर्वे शिक्षकाः शिक्षाक्षेत्रे स्वसमर्पणस्य, नवाचारस्य, दीर्घसेवा-कालस्य तथा विद्यार्थिहिते कृतानां कार्याणां कृते सम्मानिताः।
कार्यक्रमस्य प्रारम्भः क्लब-अध्यक्षस्य रोटेरियन-अखिलेशभारती-महोदयस्य स्वागतसम्बोधनेन अभवत्। सः रोटरी-सङ्घटनस्य सेवाभावनायाः तथा समाजस्य विभिन्नवर्गाणां कृते क्ल्ब-द्वारा क्रियमाणानां कार्याणां विषये प्रकाशं नीतवान्। ततः रोटेरियन-मुनीशसूदः रोटरी-सङ्घटनस्य, तस्य संरचनायाः तथा सेवाकार्याणां विषये सूचनां प्रदत्तवान्।
रोटेरियन-डॉ. अनुपमासिंहः ‘नेशन बिल्डर अवार्ड’-पुरस्कारस्य उद्देश्यम् अधिकृत्य प्रकाशं नीतवती। सा अवदत् यत् शिक्षकाः केवलं विषयज्ञानं न ददति, अपितु विद्यार्थिषु आत्मविश्वासं, अनुशासनम्, संस्कारान्, संवेदनशीलतां तथा जीवने अग्रे वर्धितुं उत्साहम् अपि जनयन्ति। तया उक्तं यत् राष्ट्रनिर्माणस्य सुदृढा आधारशिला कक्षायामेव स्थाप्यते।
सम्मानितेषु शिक्षकेषु सुशीलकुमारः क्रियाकलापाधारितायाः तथा प्रौद्योगिकी-आधारितया शिक्षया सह शिक्षकप्रशिक्षणे योगदानस्य कृते सम्मानितः।
Hindusthan Samachar / Divya Ranjan