प्रदेशस्य शिक्षकेभ्यः राष्ट्रिय शिक्षक पुरस्कारे प्राप्ते वित्त मंत्री ओपी चौधरी वर्धापितवान्
रायपुरम्, 06 सितंबरमासः (हि.स.)। शिक्षकदिवसस्य अवसरे महामहिमराष्ट्रपतिना द्रौपदीमुर्मूवर्यया स्वकरकमलाभ्यां छत्तीसगढस्य शिक्षकाः ‘राष्ट्रियशिक्षकपुरस्कारः-२०२६’ इत्यनेन पुरस्कारेण सम्मानिताः। अस्मिन् अवसरे वित्तमन्त्री ओ.पी.चौधरीः तेभ्यः हार्दिकं
वित्त मंत्री ओपी चौधरी


रायपुरम्, 06 सितंबरमासः (हि.स.)।

शिक्षकदिवसस्य अवसरे महामहिमराष्ट्रपतिना द्रौपदीमुर्मूवर्यया स्वकरकमलाभ्यां छत्तीसगढस्य शिक्षकाः ‘राष्ट्रियशिक्षकपुरस्कारः-२०२६’ इत्यनेन पुरस्कारेण सम्मानिताः। अस्मिन् अवसरे वित्तमन्त्री ओ.पी.चौधरीः तेभ्यः हार्दिकं अभिनन्दनं शुभकामनाश्च अर्पितवान्।

वित्तमन्त्री चौधरीः उक्तवान् यत् प्रदेशस्य शिक्षकाणां राष्ट्रियस्तरे सम्मानितत्वं छत्तीसगढस्य कृते गौरवस्य विषयः अस्ति। अयं सम्मानः शिक्षकाणां निष्ठायाः, समर्पणस्य, नवाचारस्य शिक्षाक्षेत्रे च क्रियमाणानां उत्कृष्टकार्याणां प्रमाणम् अस्ति। शिक्षकाः स्वकीयेन ज्ञानेन, संस्कारेण प्रयत्नेन च विद्यार्थिनां भविष्यं संवर्धयन्तः प्रदेशस्य शिक्षाव्यवस्थायै नूतनां दिशां प्रदातुं महत्त्वपूर्णं योगदानं दत्तवन्तः।

सः उक्तवान् यत् ‘राष्ट्रियशिक्षकपुरस्कारः-२०२६’ इत्यनेन पुरस्कारेण सम्मानितानां शिक्षकाणां उपलब्धिः प्रदेशस्य अन्येषां शिक्षकाणाम् अपि प्रेरणास्रोतः अस्ति। सः सर्वेषां सम्मानितानां शिक्षकाणां उज्ज्वलभविष्यस्य कामनां कुर्वन् शिक्षाक्षेत्रे एवमेव उत्कृष्टकार्याणि निरन्तरं कुर्वन्तु इति शुभकामनाः प्रेषितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani