प्रधानमन्त्री मोदी नवदिल्ली इत्यत्र सामान्ययात्रिभिः सह दिल्ली-मेट्रोयाने यात्रां कृत्वा बालकेभ्यः जीवनीपठनस्य शिक्षां दत्तवान्
नवदिल्ली, ०६ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे लोककल्याणमार्गात् मेट्रोयानेन यात्रां कुर्वन् सामान्यसहयात्रिभिः, विद्यालयीयैः बालकैः युवभिश्च सह संवादं कृतवान्। प्रधानमन्त्रिणा ‘एक्स’-सामाजिकमाध्यमे साझा-कृते एकस्मिन् दृश
प्रधानमंत्री नरेन्द्र मोदी बच्चों से बात करते हुए।


नवदिल्ली, ०६ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे लोककल्याणमार्गात् मेट्रोयानेन यात्रां कुर्वन् सामान्यसहयात्रिभिः, विद्यालयीयैः बालकैः युवभिश्च सह संवादं कृतवान्।

प्रधानमन्त्रिणा ‘एक्स’-सामाजिकमाध्यमे साझा-कृते एकस्मिन् दृश्यकणिकायां प्रदर्शितम् यत् अनौपचारिकसंवादे एकतः शिक्षकदिवसस्य देशस्य प्रगतेश्च चर्चा अभवत्, अपरतः प्रधानमन्त्री छात्रेभ्यः पुस्तकपठने अनुरक्तिं वर्धयितुं जीवनचरितग्रन्थानां पठनस्य विशेषरूपेण परामर्शं दत्तवान्। अस्यैव क्रमे सः स्वस्य संसदीयनिर्वाचनक्षेत्रे काश्याम् जातै: परिवर्तनैः सम्बद्धं यात्रिभ्यः प्रत्यक्षं प्रतिपुष्टिम् अपि प्राप्तवान्।

यात्रायाः समये बालकैः युवभिश्च सह संवादं कुर्वन् प्रधानमन्त्री तान् अपृच्छत् यत् किं ते देशस्य प्रगतेः विषये चर्चां कुर्वन्ति तथा सामान्यपुस्तकानां अतिरिक्तम् अपि किमपि पठन्ति वा। एकेन छात्रेण केवलं उपन्यासानाम् अध्ययनं क्रियते इति कथिते प्रधानमन्त्री मोदी तस्मै जीवनचरितग्रन्थान् पठितुं परामर्शं दत्तवान्।

प्रधानमन्त्रिणा उक्तम्— “प्रयत्नः करणीयः यत् आत्मजीवनी अथवा जीवनी पठ्येत। भवान् कस्यचित् क्रीडकस्य, कस्यचित् चलचित्रकलाकारस्य अथवा कस्यचित् वैज्ञानिकस्य जीवनीं पठितुं शक्नोति... कस्यापि पठतु।” तत्र उपस्थितात् एकस्मात् छात्रात् सः पाठ्यक्रमात् परं प्रेरणा-दायकानां पुस्तकानां पठनस्य सङ्कल्पमपि प्राप्तवान्।

अस्यैव मध्ये एकेन छात्रेण प्रधानमन्त्रिण: सम्मानार्थं ‘गुरुर्ब्रह्मा गुरुर्विष्णुः...’ इति श्लोकः अपि श्रावितः, यस्मिन् प्रधानमन्त्री स्मितपूर्वकं तस्य उत्साहवर्धनं कृतवान्। बनारस-हिन्दू-विश्वविद्यालयात् स्नातका तथा दिल्ली-विश्वविद्यालयात् विधिशास्त्रे शिक्षिता काशीनिवासिनी एका महिला-यात्री अपि तत्र आसीत्। प्रधानमन्त्रिणा तया सह स्वस्य संसदीयनिर्वाचनक्षेत्रे काश्यां जातानां अभूतपूर्वपरिवर्तनानां भूमिस्त-रीयवास्तविकतायाश्च विषये प्रत्यक्षं विवरणं ज्ञातम्।

Hindusthan Samachar / Divya Ranjan