Enter your Email Address to subscribe to our newsletters

सुरक्षितयात्रा हरित गतिशीलता च अस्माकं प्राथमिकते : मुख्यमंत्री डॉ. यादवः
भोपालम्, 06 सितम्बरमासः (हि.स.) ।मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः उक्तवान् यत् प्रदेशे आधुनिकपरिवहनव्यवस्थायाः विस्तारस्य सह सुरक्षितयात्रायै हरितगतिशीलतायै च विशेषं प्राधान्यं प्रदीयते। मध्यप्रदेशे सुरक्षितां सुगमां पर्यावरणानुकूलां च यात्रिपरिवहनव्यवस्थां नूतनां दिशां प्रदातुं आगामी ११ तथा १२ सितम्बरदिनाङ्कयोः इन्दौरनगरे यात्रीपरिवहनदृष्टिसम्मेलनम् २०२६ इत्यस्य आयोजनं क्रियमाणम् अस्ति।
मुख्यमन्त्री डा यादवः रविवासरे एक्स इति सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तवान् यत् मध्यप्रदेशस्य सङ्कल्पः अस्ति यत् प्रत्येकस्मै यात्रिणे सुरक्षितं सुगमं सुविधाजनकं च परिवहनं प्राप्नुयात्। सार्वजनिकपरिवहनं आधुनिकं पर्यावरणानुकूलं प्रभावशालीं च कर्तुं सार्वजनिकनिजीभागीदारी महत्वपूर्णां भूमिकां निर्वोढुं शक्नोति। यात्रीपरिवहनदृष्टिसम्मेलनम् एतस्यै दिशायै भविष्यस्य ठोसां रूपरेखां निर्मास्यति।
शिखरसम्मेलने मुख्यमन्त्रीसुगमपरिवहनसेवायाः विस्तारस्य सुदृढीकरणस्य च तथा अस्यां सार्वजनिकनिजीभागीदारीयाः भूमिकायाः विषये विशेषज्ञैः, निवेशकैः, नीतिनिर्मातृभिश्च विचारविमर्शः क्रियते। शिखरसम्मेलनस्य मुख्यं ध्यानं सुरक्षितपरिवहनस्य सह हरितपरिवहनस्य उत्तमगतिशीलतायाश्च दिशि नूतनावसराणाम् अन्वेषणे केन्द्रितं भविष्यति।
इदं शिखरसम्मेलनं प्रदेशस्य यात्रिपरिवहनव्यवस्थां अधिकां सुव्यवस्थितां, स्थायिनीं, प्रौद्योगिकीसमर्थां च कर्तुं सम्भावितनिवेशस्य सहभागितायाश्च नूतनद्वाराणि उद्घाटयितुं दिशि महत्वपूर्णः प्रयासः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani