२५ वर्षेषु मोदिना परिवर्तिता देशस्य दिशा दशा च, सेवासङ्कल्पं जनं जनं प्रति प्रापयन्तु - जयरामठाकुरः
मण्डी, ०६ सेप्टेम्बरमासः (हि.स.)। भाजपादलस्य मण्डीजनपदेन प्रधान-मन्त्रिण: नरेन्द्रमोदिनः मुख्यमन्त्रीरूपेण प्रधानमन्त्रीरूपेण च २५ वर्षाणां सेवायाः समर्पणस्य च उपलक्ष्ये आयोजितायाः ‘सेवासङ्कल्पाभियानस्य’ जनपद-स्तरीयायाः कार्यशालायाः आयोजनं कृतम्। अ
सेवा संकल्प अभियान की जिला स्तरीय कार्यशाला को संबोधित करते हुए जयराम,


कार्यशाला के दौरान भाजपा नेतागण।


मण्डी, ०६ सेप्टेम्बरमासः (हि.स.)। भाजपादलस्य मण्डीजनपदेन प्रधान-मन्त्रिण: नरेन्द्रमोदिनः मुख्यमन्त्रीरूपेण प्रधानमन्त्रीरूपेण च २५ वर्षाणां सेवायाः समर्पणस्य च उपलक्ष्ये आयोजितायाः ‘सेवासङ्कल्पाभियानस्य’ जनपद-स्तरीयायाः कार्यशालायाः आयोजनं कृतम्। अस्यां कार्यशालायां हिमाचल-प्रदेशस्य पूर्वमुख्यमन्त्री प्रतिपक्षनेता च जयराम-ठाकुरः भागं गृहीतवान्। जयरामठाकुरः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः मुख्यमन्त्रीरूपेण प्रधान-मन्त्रीरूपेण च २५ वर्षाणां सेवायात्रा केवलं राजनैतिकयात्रा नास्ति, अपि तु राष्ट्रसेवायाः, सुशासनस्य जनकल्याणं च प्रति समर्पणस्य प्रेरणादायिनी गाथा अस्ति।

सः अवदत् यत् एतेषु २५ वर्षेषु नरेन्द्रमोदिना देशस्य विकासाय नूतनं वेगं प्रदत्तम्, भारतस्य आत्मविश्वासाय सामर्थ्याय च अपि नूतना प्रतिष्ठा प्रदत्ता। अद्य विश्वं भारतं सुदृढं, सक्षमं निर्णायकं च राष्ट्ररूपेण पश्यति। सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे निर्धनानां, कृषकाणां, महिलानां, यूनां समाजस्य अन्तिमपङ्क्तौ स्थितस्य जनस्य च कल्याणं केन्द्रे निधाय अनेकाः ऐतिहासिकाः योजनाः निर्णयाश्च क्रियान्विताः सन्ति। जनधनयोजना, उज्ज्वलायोजना, आयुष्मान्भारतम्, प्रधानमन्त्रिणः आवासयोजना, स्वच्छ-भारताभियानम्, डिजिटलभारतं च इत्यादीनाम् अनेकासां योजनानां माध्यमेन देशस्य कोटिशः परिवाराणां जीवने सकारात्मकः परिवर्तनः आगतः। सः अवदत् यत् देशे मार्गाणां, रेलमार्गाणां, विमानसम्पर्कस्य आधुनिकस्य आधार-भूतसंरचनायाश्च यः शीघ्रतया विस्तारः अभवत्, सः नवभारतस्य परिवर्तमानं स्वरूपं प्रदर्शयति।

सः कार्यकर्तृभ्यः अवदत् यत् सप्तदशे सेप्टेम्बरमासे आरभ्यमाणं ‘सेवा-सङ्कल्पाभियानम्’ प्रत्येकं मतदानकेन्द्रं, प्रत्येकं मण्डलं प्रत्येकं विधानसभाक्षेत्रं च प्रभावीरूपेण प्रापयन्तु तथा च अस्य व्यापकजनाभियानस्य स्वरूपं प्रददतु। सः अवदत् यत् विकसितभारतस्य सङ्कल्पः केवलं सर्वकारस्य सङ्कल्पः नास्ति, अपि तु १४० कोटिदेशवासिनां सङ्कल्पः अस्ति।

अस्मिन्नवसरे भाजपादलस्य जनपद-प्रभारी पूर्वमन्त्री च सुरेशभारद्वाजः अवदत् यत् ‘सेवासङ्कल्पाभियानम्’ सप्तदशे सेप्टेम्बरमासतः सप्तदशे अक्टूबर-मासपर्यन्तं चलिष्यति। अस्य अन्तर्गतं ‘आशीर्वादस्य दीपः’, ‘२५ कोटिबालकानां स्वप्नानां भारतम्’, ‘नमो शिवगाथा’, ‘आङ्गणस्य उत्सवः’, ‘परिवर्तनस्य कथा’, ‘विकसितभारत-सङ्कल्पयात्रा’ तथा ‘सेवाज्योतियात्रा’ इत्यादयः विविधाः कार्यक्रमाः आयोजिताः भविष्यन्ति। ‘सेवा—मम योगदानम्’ इत्यस्य अन्तर्गतं रक्तदानम्, स्वास्थ्य-शिबिरम्, स्वच्छताभियानम्, वृक्षारोपणम्, वृद्धाश्रमेषु अनाथालयेषु च सेवा, शिक्षासहयोगः, नशामुक्त्यभियानम् इत्यादीनि अनेकानि सेवाकार्याणि क्रियन्ते।

Hindusthan Samachar / Divya Ranjan