Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्रिणा नायबसिंहेन सैनीना रावतुलारामक्रीडाङ्गणात् हरितध्वजं प्रदर्श्य अर्धमैराथनधावनस्य शुभारम्भः कृतः
प्रायः एकलक्षं युवानः व्यसनमुक्तेः सङ्कल्पं स्वीकृतवन्तः
रेवाड़ी ०६ सितम्बरमासः(हि.स.)। हरियाणस्य मुख्यमन्त्री नायबसिंहसैनी उक्तवान् यत् हरियाणस्य युवाशक्तिः व्यसनस्य विरुद्धं निर्णायकं युद्धं कर्तुं सङ्कल्पं कृतवती अस्ति तथा युवानां एषः उत्साहः प्रदेशं व्यसनमुक्तं कर्तुं प्रवर्तमानायाः अभियानाय नूतनां दिशां प्रदास्यति। सः उक्तवान् यत् हरियाणसर्वकारेण व्यसनस्य आव्हानस्य निराकरणाय कार्यवाही, जनजागरणम्, उपचारः, पुनर्वासः च इत्येतेषु क्षेत्रेषु सुदृढा व्यवस्था निर्मिता अस्ति।
मुख्यमन्त्री नायबसिंहसैनी रविवासरे रेवाड़ीनगरे नशामुक्तहरियाणाक्रीडायुक्तहरियाणा इति सङ्कल्पं जनजनपर्यन्तं नेतुं तथा युवानः क्रीडाभिः सह संयोज्य व्यसनस्य विरुद्धं सुदृढं सामाजिकवातावरणं निर्मातुं आयोजितस्य अर्धमैराथनधावनस्य मुख्यातिथिरूपेण सम्बोधनं कुर्वन् एतत् उक्तवान्।
मुख्यमन्त्रिणा पुष्पवृष्टिं कृत्वा पञ्चाशत्सहस्राधिकानां धावकानाम् उत्साहवर्धनम्
अर्धमैराथनधावनस्य समये मुख्यमन्त्री नायबसिंहसैनी ध्वजप्रदर्शनमञ्चात् पञ्चाशत्सहस्राधिकेषु धावकेषु अन्येषु च प्रतिभागिषु पुष्पवृष्टिं कृत्वा तेषाम् उत्साहं वर्धितवान्। अपरत्र धावनमार्गे ड्रोनयन्त्रस्य माध्यमेन अपि पञ्चाशत्सहस्राधिकेषु धावकेषु पुष्पवृष्टिः कृता। मुख्यमन्त्रिणा कृतस्य अस्य आत्मीयस्वागतेन धावकेषु उत्साहस्य उमङ्गस्य च वातावरणं निरन्तरं वर्तितम्। आकाशात् पततां पुष्पाणां उत्साहस्य च मध्ये धावनस्य दृश्यं आयोजनस्य प्रमुखेषु आकर्षणेषु अन्यतमम् अभवत्। पुष्पवृष्टेः मध्ये धावकाः अपि उत्साहपूर्वकं मुख्यमन्त्रिणः अभिवादनं कृत्वा पूर्णोत्साहेन मैराथनधावने भागं गृहीतवन्तः।
मुख्यमन्त्रिणा विजेतृभ्यः धनपुरस्कारैः सम्मानः प्रदत्तः
मुख्यमन्त्री नायबसिंहसैनी अभिलेखीयसहभागितया सम्पन्नस्य रेवाड़ीमैराथनधावनस्य विजेतृप्रतियोगिभ्यः रावतुलारामक्रीडाङ्गणस्य पुरतः निर्मिते मञ्चे धनपुरस्कारान् प्रशस्तिपत्राणि च प्रदाय सम्मानितवान्।
प्रातः षड्वादने प्रारब्धे दश किलोमीटरमिते अर्धमैराथनधावने पुरुषवर्गे मोनुकुमारेण प्रथमस्थानं प्राप्य धावनं स्वनाम्नि कृतम्। धावने धर्मेन्द्रः द्वितीयस्थाने अभवत् तथा रामसङ्गरूपेण तृतीयपुरस्कारः प्राप्तः। अस्यामेव धावनप्रतियोगितायां महिलावर्गे सरितापालः प्रथमस्थाने अभवत्। द्वितीयपुरस्कारं सोनिका तथा तृतीयपुरस्कारं नीतारानी मुख्यमन्त्रिणः हस्ताभ्यां प्राप्तवत्यौ।
प्रातः सप्तवादने प्रारब्धायां पञ्च किलोमीटरमितायां मैराथनधावनप्रतियोगितायां पुरुषवर्गे यशः प्रथमपुरस्कारं प्राप्तवान्। अस्यामेव धावनप्रतियोगितायां पङ्कजः द्वितीयं तथा शङ्करदयालः तृतीयं पुरस्कारं प्राप्तवन्तौ। महिलावर्गे पूजा प्रथमस्थाने अभवत्। द्वितीयस्थाने सोनिया तथा तृतीयस्थाने नीलमः विजयं प्राप्तवत्यौ।
मुख्यमन्त्रिणा दश किलोमीटरमिते धावने प्रथमं द्वितीयं तृतीयं च स्थानं प्राप्तवद्भ्यः विजेतृभ्यः क्रमशः एकलक्षं, पञ्चाशत्सहस्रं, एकविंशतिसहस्रं रूप्यकाणां धनादेशान् प्रशस्तिपत्राणि च प्रदाय पुरस्काराः प्रदत्ताः। तथैव पञ्च किलोमीटरमिते धावने प्रथमं द्वितीयं तृतीयं च स्थानं प्राप्तवद्भ्यः धावकेभ्यः क्रमशः पञ्चसहस्रैकशतं, त्रिसहस्रैकशतं, द्विसहस्रैकशतं रूप्यकाणां प्रोत्साहनराशिः प्रदत्ता।
पैराक्रीडकां शर्मिलाधनखड़ाम् अपि सम्मानितां कृतवान्।
Hindusthan Samachar / Dheeraj Maithani