शिक्षको विद्यार्थिनां जीवनस्य वास्तविको मार्गदर्शकः अथ च राष्ट्र निर्माणस्य आधारः - प्रो. वीर सिंह रांगड़ा
शिमला, 06 सितंबरमासः (हि.स.)। शिक्षकाः केवलं ज्ञानप्रदानस्य कार्यं न कुर्वन्ति, अपितु ते विद्यार्थिनः जीवने सम्यग्दिशां प्रदर्शयन्तः मार्गदर्शकाश्च भवन्ति। शिक्षकाः संस्कारयुक्तान्, समर्थान्, उत्तरदायिनः च नागरिकान् निर्मातुं महत्वपूर्णां भूमिकां
शिक्षक दिवस पर आयोजित कार्यक्रम


शिमला, 06 सितंबरमासः (हि.स.)।

शिक्षकाः केवलं ज्ञानप्रदानस्य कार्यं न कुर्वन्ति, अपितु ते विद्यार्थिनः जीवने सम्यग्दिशां प्रदर्शयन्तः मार्गदर्शकाश्च भवन्ति। शिक्षकाः संस्कारयुक्तान्, समर्थान्, उत्तरदायिनः च नागरिकान् निर्मातुं महत्वपूर्णां भूमिकां निर्वहन्ति। इति हिमाचलप्रान्तस्य सङ्घचालकः प्रोफेसर डाक्टर वीरसिंहराङ्गड़ा शिक्षकदिवसस्य अवसरे शिमलानगरे हिन्दएजुकेशनसंस्थया आयोजिते समारोहे उक्तवान्।

अस्मिन् समारोहे प्रो डॉ वीरसिंहराङ्गड़ा मुख्यवक्तृरूपेण सम्मिलितः अभवत्। कार्यक्रमे सञ्जयसूदः मुख्यातिथिरूपेण स्वामीरामरूपानन्दः विशिष्टातिथिरूपेण च उपस्थितौ आस्ताम्। समारोहे चतुःशताधिकाः विद्यार्थिनः अभिभावकाश्च सम्मिलिताः अभवन्।

प्रोफेसर डॉ राङ्गड़ामहोदयः शिक्षकदिवसस्य महत्त्वे प्रकाशं पातयित्वा सर्वेभ्यः शुभकामनाः प्रदत्तवान्। सः उक्तवान् यत् शिक्षकाः विद्यार्थिभ्यः विषयस्य ज्ञानं प्रदाय तेषां व्यक्तित्वस्य जीवनस्य च सम्यग्दिशां प्रदर्शयन्ति। तेषां मार्गदर्शनेन संस्कारैश्च विद्यार्थिनः उत्तरदायिनः नागरिकाः भवन्ति तथा च अग्रे राष्ट्रनिर्माणे योगदानं ददति। सः विद्यार्थिभ्यः स्वशिक्षकाणां सम्मानं कर्तुं तेषां मार्गदर्शनं च जीवने अनुसर्तुम् आह्वानं कृतवान्।

हिन्दएजुकेशन इत्यस्य अध्यक्षः अनुजपन्तः अतिथीनां शिक्षकाणां विद्यार्थिनाम् अभिभावकानां च स्वागतं कृत्वा शिक्षकदिवसस्य शुभकामनाः प्रदत्तवान्।

मुख्यातिथिः सञ्जयसूदः विशिष्टातिथिः स्वामीरामरूपानन्दश्च शिक्षकदिवसस्य अवसरे स्वविचारान् अपि प्रस्तुतवन्तौ। ताभ्यां हिन्दएजुकेशनसंस्थया शिक्षायाः कौशलविकासस्य च क्षेत्रे क्रियमाणानां प्रयासानां प्रशंसा कृता।

समारोहे विद्यार्थिभिः विविधाः सांस्कृतिकाः प्रस्तुतयः प्रदत्ताः। हिमाचलीलोकनृत्यं नाटी विशेषाकर्षणस्य केन्द्रम् अभवत्। विद्यार्थिनां प्रस्तुतिषु उपस्थितैः जनैः करतलध्वनिना तेषाम् उत्साहवर्धनं कृतम्। कार्यक्रमे शिक्षया सह हिमाचलीसंस्कृतेः झलकः अपि द्रष्टुं प्राप्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani