Enter your Email Address to subscribe to our newsletters

खूँटी, ०६ सेप्टेम्बरमासः (हि.स.)। खूँटीजनपदस्य तोरपामार्गस्थिते जेआई-आईटी-अकादमी-कम्प्यूटर-केन्द्रे रविवासरे मनोरञ्जककार्यक्रमैः सह शिक्षकदिवससमारोहस्य आयोजनं कृतम्। कार्यक्रमस्य शुभारम्भः केन्द्रसञ्चालकेन वीरेन्द्रनागेन, मुख्यकार्यालयस्य निदेशिकया बुलबुल-आइच-महोदयया सहयोगिभिश्च दीपप्रज्वलनेन कृतः। ततः केक्-कर्तनेन पूर्वराष्ट्रपतये महान्-शिक्षाविदे च डॉ. सर्वपल्ली-राधाकृष्णन्-महोदयाय श्रद्धासुमनानि समर्पितानि। अस्मिन् अवसरे विद्यार्थिनां उज्ज्वल-भविष्यस्य कामना कृता।
समारोहे संस्थायाः नूतनाः पुरातनाश्च विद्यार्थिनः उत्साहपूर्वकं सम्मिलिताः। विद्यार्थिभिः गीतैः नृत्यैश्च विविधैः मनोरञ्जकप्रस्तुतिभिः समारोहः स्मरणीयः कृतः। अस्मिन् क्रमे गणेशनामकेन शिक्षकेन विद्यार्थिभ्यः नूतनस्य आशुलिपि-पाठ्यक्रमस्य तस्य च क्षेत्रस्य विषये सूचना प्रदत्ता। निदेशिका बुलबुल्-आइच्-महोदया विद्यार्थिनः परिश्रमेण, लग्नतया अनुशासनेन च जीवने अग्रे गन्तुं प्रेरितवती।
केन्द्रसञ्चालकेन वीरेन्द्रनागेन संस्थायां सञ्चालितानां विविधानां सङ्गणक-सम्बद्धानाम् अन्येषां च पाठ्यक्रमाणां विषये सूचना प्रदत्ता। तेन उक्तं यत् जेआईआईटी-अकादम्याः उद्देश्यं खूँटी-जनपदस्य विद्यार्थिभ्यः उत्तमां प्राविधिकीशिक्षां सह रोजगारोपयोगि-प्रशिक्षणं च प्रदातुम् अस्ति। तेन उक्तं यत् भविष्येऽपि एतादृशानां कार्यक्रमाणां माध्यमेन विद्यार्थिभ्यः लाभं प्रदातुं प्रयासः निरन्तरं भविष्यति।
समारोहे मोनीराणी, रोजलिन-महोदया, पुष्पाकुमारी, गणेशस्वांसी, रेणुमहोदया इत्यादयः शिक्षकाः शिक्षिकाश्च उपस्थिताः आसन्। कार्यक्रमस्य सफलतायै आशीषः, नीतू, प्रशान्तः, पङ्कजः, रेश्मी, उमा, पूजा, निधिः, रोहिणी, तनुः, सुभद्रा, निक्की, इशाना, पूर्वी, आरोही, आरवी, अभिनवः, आयुषः, अभयः, प्रियङ्का इत्यादयः विद्यार्थिनः महत्त्वपूर्णं सहयोगं कृतवन्तः।
Hindusthan Samachar / Divya Ranjan