Enter your Email Address to subscribe to our newsletters

मुम्बई, ०६ सेप्टेम्बरमासः (हि.स.)। शिक्षाक्षेत्रे सर्वै: सह नीत्वा गमनम्, कक्षायां च प्रत्येकं विद्यार्थिनं स्वकीयभावेन सम्मानपूर्वकं च व्यवहर्तुं अत्यन्तम् आवश्यकम् अस्ति। एतद् ठाणेनगरे ‘सत्कार रेजीडेंसी’ इत्यत्र आयोजिते पुस्तकप्रकाशनसमारोहे उक्तम्। डॉ. रेवतीश्रीनिवासनेन विरचितं “क्रिएटिंग क्लासरूम्स व्हेयर एवरी चाइल्ड बिलॉन्ग्स” इति पुस्तकं महाराष्ट्रस्य उपमुख्यमन्त्री एकनाथशिन्दे विमोचितम्।
अस्मिन् अवसरे ठाणेनगरस्य सांसदः नरेशम्हस्के, पूर्वसांसदः आनन्दपराञ्जपे, उपक्षेत्रीयाधिकारी हेमाङ्गिनीपाटिल: इत्येतै: सह शिक्षाक्षेत्रस्य प्रसिद्धाः जनाः, शिक्षकाः, बहुसंख्याकाः सामान्यजनाश्च उपस्थिताः आसन्।
अस्मिन् अवसरे भाषमाणः उपमुख्यमन्त्री एकनाथशिन्देः अवदत् यत् शिक्षाक्षेत्रे डॉ. रेवतीश्रीनिवासनस्य योगदानस्य सः प्रशंसां करोति। सः स्वविश्वासं प्रकटयन् अवदत्— “विद्यार्थिनां सम्पूर्णविकासाय सर्वेभ्यः समानावसरान् प्रदातुं च कक्षायाः वातावरणं सर्वै: सह नीत्वा गच्छत् भवितव्यम्। एतत् पुस्तकं शिक्षकाणां, अभिभावकानां, शिक्षाक्षेत्रे कार्यरतानां सर्वेषां हितधारकाणां च कृते प्रकाशस्य किरणं भविष्यति।”
डॉ. रेवतीश्रीनिवासनस्य कार्यस्य प्रशंसा सर्वत्र क्रियते। विगतत्रिंशद्वर्षेभ्यः शिक्षाक्षेत्रे निरन्तरं योगदानं ददती डॉ. रेवती-श्रीनिवासनेन सामान्यबालकैः सह विशेषावश्यकतायुक्तानां, ग्रामीणानां, सामाजिकरूपेण आर्थिकरूपेण च वञ्चित-समूहानां बालकानां कृते चिकित्सा-केन्द्राणि विशेषक्रियाकलापांश्च प्रारब्धाः। तेषां प्रयासैः ते बालकाः मुख्यधारायां समानीताः सन्ति। लण्डनस्य ‘हाउस ऑफ लॉर्ड्स’ इत्यत्र तस्यै प्राप्तं सम्मानं तथा तया निर्मिता शैक्षणिक-परम्परा च सर्वेषां ठाणेनगरवासिनां गौरवस्य विषयः अस्ति।
कार्यक्रमस्य समये उपमुख्यमन्त्री एकनाथशिन्देः धर्मवीर-आनन्ददिघे-महोदयेन सह स्वीयाः स्मृतीः स्मृतवान्। विद्यालयेषु प्रवेशप्रक्रियायै सामान्य-कार्यकर्तॄणां अभिभावकानां च अनुरोधे सति स्वयं विद्यालयं गत्वा तेषां साहाय्यं कृतवान् इति पूर्वप्रसङ्गान् अपि सः स्मृतवान्।
डॉ. रेवतीश्रीनिवासनः अपि अस्मिन् अवसरे स्वविचारान् प्रकटितवती। सा अवदत् यत् शिक्षायाः वास्तविकं प्रयोजनं केवलं पठितुं लिखितुं वा नास्ति, अपितु प्रत्येकं बालकस्य क्षमतां ज्ञात्वा तं समाजे आत्मसम्मानेन जीवितुं समर्थं सुदृढं च कर्तुम् अस्ति।
सामान्यविद्यार्थिभिः सह विशेषावश्यकता-युक्तानां बालकानां, ग्रामीणबालकानां, सामाजिक-आर्थिकरूपेण वञ्चितसमूहानां बालकानां च कृते अपि परिश्रमः करणीयः। एते बालकाः विशेषचिकित्साकेन्द्राणां नवीनशैक्षणिकप्रयासानां च माध्यमेन मुख्यधारायां आनेतव्याः तथा तेषां जीवनाय नूतना दिशा प्रदातव्या।
Hindusthan Samachar / Divya Ranjan