आत्मविश्वासेन, आत्मसम्मानेन आत्मनिर्भरत्वेन च भारतं विश्वशक्तित्वं प्रति वर्धते - डॉ. दीपकवोहरा
गोरखपुरम्, ०६ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदिनः विशेष-सलाहकारः तथा भारतीय-विदेशसेवायाः सेवानिवृत्तः वरिष्ठराजनयिकः डॉ. दीपकवोहरा अवदत् यत् कस्यापि राष्ट्रस्य प्रगतिः आत्मविश्वासे, आत्मसम्माने आत्मनिर्भरत्वे च निर्भरति। यत् राष्ट्
रोटरी क्लब गोरखपुर के ‘लम्हे’ सम्मेलन में पूर्व राजदूत डॉ. दीपक वोहरा का स्वागत करते रोटरी पदाधिकारी एवं भारत-नेपाल-भूटान से पहुंचे प्रतिनिधि।


रोटरी क्लब गोरखपुर के ‘लम्हे’ सम्मेलन में पूर्व राजदूत डॉ. दीपक वोहरा का स्वागत करते रोटरी पदाधिकारी एवं भारत-नेपाल-भूटान से पहुंचे प्रतिनिधि।


गोरखपुरम्, ०६ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदिनः विशेष-सलाहकारः तथा भारतीय-विदेशसेवायाः सेवानिवृत्तः वरिष्ठराजनयिकः डॉ. दीपकवोहरा अवदत् यत् कस्यापि राष्ट्रस्य प्रगतिः आत्मविश्वासे, आत्मसम्माने आत्मनिर्भरत्वे च निर्भरति। यत् राष्ट्रम् एतानि त्रीणि मूल्यानि आत्मसात् न करोति, तत् विकासस्य स्पर्धायां पश्चात् तिष्ठति। अद्य भारतम् एतेषां तिसृणां शक्तिनां बलेन विश्वपटलस्य नूतनं परिचयं निर्माति।

डॉ. वोहरा रविवासरे होटल रैडिसन् ब्लू इत्यत्र रोटरी-क्लब-गोरखपुरस्य आतिथ्ये आयोजिते बहुजनपदसम्मेलने ‘लम्हे : जहाँ दिल मिलते हैं’ इति कार्यक्रमे सम्बोधनं कुर्वन् आसीत्। ‘लोक-छवि एवं शान्ति’ इति विषयम् आधृत्य आयोजिते अस्मिन् सम्मेलने रोटरी-डिस्ट्रिक्ट् इत्यस्य प्रतिनिधिभिः सह भारत-नेपाल-बाङ्गलादेश-भूटानदेशानां प्रतिनिधयः अपि सहभागितां कृतवन्तः।

सः अवदत् यत् भारतं स्वसार्वभौमत्वस्य अखण्डतायाश्च रक्षणाय सदैव सक्षमं सङ्कल्पबद्धं च अस्ति। डॉ. वोहरा अवदत्— “वयं विश्वाय शक्तेः उदाहरणं न, अपितु उदाहरणस्य शक्तिं दर्शयितुम् इच्छामः।” सः भारतस्य विदेशनीतेः, आर्थिकप्रगतेः, प्रौद्योगिकक्षमतायाः तथा वर्धमानस्य वैश्विकप्रभावस्य च चर्चा कुर्वन् अवदत् यत् भारतं केवलं स्वस्य कृते न, अपितु विश्वकल्याणस्य भावनया सह अग्रे वर्धते। सः विश्वासं प्रकटितवान् यत् २०४७ तमवर्षपर्यन्तं भारतीयार्थव्यवस्था प्रायः ४० ट्रिलियन-डॉलर-परिमाणं प्राप्तुं शक्नोति।

कार्यक्रमे रोटरी-इण्टरनेशनल इत्यस्य पूर्वनिदेशकः रोटेरियन् कमलसांघवी, रोटरी-पब्लिक्-इमेज-कोऑर्डिनेटर् रोटेरियन-बिन्दुसिंहः, रोटरी-डिस्ट्रिक्ट् ३१२० इत्यस्य डिस्ट्रिक्ट्-गवर्नर् रोटेरियन-पूनमगुलाटी, डिस्ट्रिक्ट् ३२५० इत्यस्य डिस्ट्रिक्ट्-गवर्नर् रोटेरियन-अनुनारङ्गः, डिस्ट्रिक्ट् ३२९२ इत्यस्य डिस्ट्रिक्ट्-गवर्नर् रोटेरियन-विष्णु बी. कार्की तथा रोटेरियन-दिनेशगर्गः इत्येतेषां सहितं वरिष्ठ-रोटरी-नेतृत्वस्य सदस्याः सहभागितां कृतवन्तः।

वक्तारः अवदन् यत् रोटरी-सङ्गठनस्य सुदृढा लोकछविः केवलं प्रचारमाध्यमेन न, अपितु सेवा, पारदर्शिता, विश्वसनीयता तथा समाजे सकारात्मकप्रभावेण निर्मीयते। विश्वशान्त्यै संवादः, सद्भावः, परस्परं सम्मानः तथा सेवाभावना आवश्यकाः इति प्रतिपादितम्। रोटरी-क्लब-गोरखपुरस्य अध्यक्षः रोटेरियन-प्रवीरआर्यः अवदत् यत् ‘लम्हे’ विभिन्नप्रदेशेभ्यः देशेभ्यश्च आगतानां रोटेरियन-सदस्यानां विचाराणां, मैत्र्याः तथा सेवासङ्कल्पानां सङ्गमः अस्ति। सचिवः रोटेरियन-शुभेन्दुश्रीवास्तवः अतिथिभ्यः प्रतिनिधिभ्यश्च कृतज्ञतां प्रकटितवान्।

आयोजने पूर्व-डिस्ट्रिक्ट्-गवर्नर रोटेरियन-अनूप-अग्रवालः, सतीशरायः, रामपालसिंहः, मनीषजायसवालः, संजीव-अग्रवालः, संचितश्रीवास्तवः, अमितओझा, आशुतोषद्विवेदी, अखिलेशओझा, आशुतोष-मिश्रः, डॉ. एस.एस. दासः, पी.डी. जैनः, हरिनन्दनश्रीवास्तवः, एम.पी. कन्दोई तथा अरविन्दविक्रमचौधरी, चारुचौधरी इत्येतेषां सहितं अनेकानां वरिष्ठसदस्यानां सहयोगः अभवत्।

तदतिरिक्तं श्रीलालमंझानी, अनिल-वालानी, आलोकअग्रवालः, ईश्वरचन्द्र-जायसवालः, मान्धातासिंहः, नीरज-अस्थाना, दिनेशसिंहसारथी, हरेकृष्णसिंहः, आशीषजोशी, रीनात्रिपाठी, डॉ. रश्मिश्रीवास्तवः, डॉ. अश्विनीअग्रवालः, डॉ. सुरहीताकरीम, शालिनीदासः, डॉ. शिवशङ्करशाही, अशोकगुप्तः, सज्जन-माथुरः, सुधांशुचन्द्रः, हरेकृष्णासिंहः, सुधीररायः, महेशगर्गः, डॉ. दीपकश्रीवास्तवः, विशाखागुप्ता, प्रखररञ्जनः, सी.ए. अरुणगुप्तः, अमितबाथवालः, अनिल-वालानी, विकल्पत्रिपाठी, अमित-विक्रमवर्मा, अमितओझा तथा सुनील-केशरवानी इत्येतेऽपि आयोजने योगदानं कृतवन्तः।

सम्मेलनस्य प्रमुखं आकर्षणं विशेष-स्मारिका ‘लम्हे : जहाँ दिल मिलते हैं’ आसीत्। अस्याः मुख्यसम्पादकः डॉ. शिवशरणदासः तथा सम्पादकः रोटेरियन-इञ्जीनियर् आशुतोषमिश्रः आसीत्। स्मारिकायां रोटरी-सङ्गठनस्य सेवायात्रा, सामाजिकदायित्वानि, वरिष्ठनेतृत्वस्य सन्देशाः तथा विभिन्नाः सेवापरियोजनाः सङ्गृहीताः सन्ति।

Hindusthan Samachar / Divya Ranjan