माउण्ट् त्रिशूलस्य विजयाय सेनायाः पर्वतारोहणाभियानं प्रस्थानम्
हरिद्वारम्, ०६ सेप्टेम्बरमासः (हि.स.)। भारतीयसेनायाः अभियान्त्रिकीसेनादलेन गढवाल-हिमालयस्य दुर्गमशिखरेषु अन्तर्भूते माउण्ट् त्रिशूलशिखरे पर्वता-रोहणाभियानम् आरब्धम्। ७,१२० मीटर (२३,३६० फीट्) उन्नतेः अस्य शिखरस्य विजयाय सेनायाः पर्वतारोहण-दलम् रुड़क
फ्लैग-ऑफ के दौरान दल के सदस्य


हरिद्वारम्, ०६ सेप्टेम्बरमासः (हि.स.)। भारतीयसेनायाः अभियान्त्रिकीसेनादलेन गढवाल-हिमालयस्य दुर्गमशिखरेषु अन्तर्भूते माउण्ट् त्रिशूलशिखरे पर्वता-रोहणाभियानम् आरब्धम्। ७,१२० मीटर (२३,३६० फीट्) उन्नतेः अस्य शिखरस्य विजयाय सेनायाः पर्वतारोहण-दलम् रुड़कीस्थात् बेङ्गल्-इञ्जिनियर-ग्रुप-एण्ड्-सेन्टर इत्यस्मात् औपचारिक-रूपेण हरितध्वजं दर्शयित्वा प्रस्थापितम्।

अभियानस्य उद्देश्यं केवलं दुर्गम-पर्वतशिखरे त्रिवर्णध्वजस्य आरोहणं न, अपितु भारतीयसेनायाः सैनिकानां शारीरिकक्षमता, तान्त्रिकदक्षता, मानसिकदृढता, अनुशासनं दलभावना च चुनौतीपूर्णपरिस्थितिषु परीक्षितुमपि अस्ति।

फ्लैग्-ऑफ्-समारोहे सेनायाः सेन्ट्रल्-कमाण्डस्य लेफ्टिनेन्ट् जनरल अनिन्द्यसेनगुप्तः, अभियान्त्रिकीसेनायाः प्रमुखः लेफ्टिनेन्ट् जनरल् विकासरोहेला तथा बेङ्गल-सैपर्स एण्ड मिलिटरी-सर्वे इत्यस्य कर्नल-कमाण्डेन्ट लेफ्टिनेन्ट जनरल एस.एस. दहिया इत्यादयः वरिष्ठाः सेनाधिकारिणः उपस्थिताः आसन्।

गढवाल-हिमालये स्थितं माउण्ट् त्रिशूलशिखरं स्वस्य उन्नतत्वेन दुर्गमपर्वतीयभूभागेन च पर्वतारोहिभ्यः महत् आव्हानं मन्यते। अत्यधिक-उन्नतिः, दुर्गममार्गः, तान्त्रिकपर्वतारोहणं तथा शीघ्रं परिवर्तमानं वातावरणं अभियानदलस्य परीक्षां करिष्यन्ति। दलस्य सदस्येभ्यः उच्चप्रदेशेषु अनुकूलनस्य, शारीरिकप्रशिक्षणस्य तथा पर्वतारोहणस्य यान्त्रिकविधीनां विशेषप्रशिक्षणं प्रदत्तम् अस्ति।

फ्लैग-ऑफ-समारोहस्य प्रारम्भः कार्य-सञ्चालनसम्बद्धया सूचनासभया अभवत्। तस्यां प्रस्तावितयात्राकार्यक्रमः, आरोहण-मार्गः, अभियानस्य महत्त्वपूर्णाः चरणाः, सुरक्षानियमा: तथा हिमालयीयक्षेत्रे परिवर्तमानस्य वातावरणस्य कठिन-परिस्थितीनां च सम्मुखिनं कर्तुं रणनीतिः इत्यादिविषये सूचना प्रदत्ता।

समारोहं सम्बोधयन् लेफ्टिनेन्ट जनरल अनिन्द्यसेनगुप्तः अभियानदलस्य शारीरिकसुदृढतां, मानसिकदृढतां दलभावनां च प्रशंसितवान्। अभिया-न्त्रिकीसेनायाः सैपर्स्-सैनिकानां साहसिककार्येषु पर्वतारोहणे च गौरवपूर्णां परम्परां निर्दिश्य सः अवदत् यत् एतादृशानि अभियानानि सैनिकेषु नेतृत्वगुणं, अनुशासनं, सहनशक्तिं, दलकार्यभावनां तथा विचारपूर्वकं समस्यां स्वीकर्तुं क्षमतां च सुदृढीकुर्वन्ति। उच्चप्रदेशेषु सैन्यसज्जतायै एतादृशानि अभियानानि महत्त्वपूर्णानि इति सः उक्तवान्।

अभियान्त्रिकीसेनायाः अनुभवी पर्वता-रोहिभिः अभियानदलस्य सदस्यैः सह संवादं कृत्वा स्वानुभवाः साझीकृताः। समारोहस्य अन्ते अभियानदलस्य नेतृणे औपचारिकरूपेण ‘एक्सपेडिशन-फ्लैग्’ प्रदत्तम्। तदनन्तरं दलं आधारशिबिरस्य दिशि प्रस्थितम्, यत्रतः माउण्ट त्रिशूलस्य अग्रिमं पर्वतारोहणाभियानम् आरप्स्यते।

माउण्ट् त्रिशूल-अभियानं भारतीयसेनायाः अभियान्त्रिकीसेनादलस्य साहसिक-कार्याणां पर्वतारोहणपरम्परायाश्च संवर्धनं कुर्वत् अभियानम् अस्ति। दुर्गमासु हिमालयीयपरिस्थितिषु एतत् दलं साहसं, दृढतां, अनुशासनं, दलकार्यभावनां व्यावसायिकश्रेष्ठतां च प्रदर्शयितुं सज्जम् अस्ति।

Hindusthan Samachar / Divya Ranjan