मुजफ्फरपुरतः आनंद विहाराय चलिष्यति सुपरफास्टविशेषेण ट्रेनयानम्
नव दिल्ली, 07 सितंबरमासः (हि.स.)। यात्रिणां सुविधां अतिरिक्तजनसमूहम् च दृष्ट्वा उत्तररेल्वे मुजफ्फरपुरजंक्शनतः आनन्दविहारटर्मिनलपर्यन्तं सुपरफास्टविशेषएक्सप्रेसरेलयानस्य सञ्चालनस्य निर्णयं कृतवती अस्ति। रेलयानसङ्ख्या ०५२१९/०५२२० इत्यस्य सञ्चालनं
उत्तर रेलवे  (लोगो)।


नव दिल्ली, 07 सितंबरमासः (हि.स.)।

यात्रिणां सुविधां अतिरिक्तजनसमूहम् च दृष्ट्वा उत्तररेल्वे मुजफ्फरपुरजंक्शनतः आनन्दविहारटर्मिनलपर्यन्तं सुपरफास्टविशेषएक्सप्रेसरेलयानस्य सञ्चालनस्य निर्णयं कृतवती अस्ति। रेलयानसङ्ख्या ०५२१९/०५२२० इत्यस्य सञ्चालनं ११ सितम्बरतः २८ नवम्बरपर्यन्तं निर्धारितेषु दिनेषु भविष्यति। रेलयाने वातानुकूलिताः, शयनयानाः सामान्यद्वितीयश्रेण्याः च डिब्बाः उपलब्धाः भविष्यन्ति।

उत्तररेल्वे-मुख्यजनसम्पर्काधिकारी हिमांशुशेखर उपाध्यायः सोमवासरे उक्तवान् यत् रेलयानसङ्ख्या ०५२१९ मुजफ्फरपुर-आनन्दविहारटर्मिनल-सुपरफास्टविशेषएक्सप्रेस् मुजफ्फरपुरजंक्शनतः प्रत्येकं शुक्रवासरे ११ सितम्बरतः २७ नवम्बरपर्यन्तं प्रचलिष्यति। अपरतः रेलयानसङ्ख्या ०५२२० आनन्दविहारटर्मिनल-मुजफ्फरपुरविशेषएक्सप्रेस् प्रत्येकं शनिवासरे १२ सितम्बरतः २८ नवम्बरपर्यन्तं सञ्चालिता भविष्यति। उभयोः दिशयोः समग्रतः १२-१२ यात्राः भविष्यन्ति।

रेलयानसङ्ख्या ०५२१९ मुजफ्फरपुरजंक्शनतः अपराह्णे सार्धैकवादने प्रस्थाय हाजीपुरजंक्शन, सोनपुर, पाटलिपुत्र, दानापुर, आरा, बक्सर, पण्डितदीनदयालउपाध्यायजंक्शन, प्रयागराजजंक्शन, गोविन्दपुरी तथा टूण्डलाजंक्शन इत्येतानि स्थानानि अतिक्रम्य परदिने प्रातः दशवादने आनन्दविहारटर्मिनल् इति स्थले प्राप्स्यति।

प्रत्यागमने रेलयानसङ्ख्या ०५२२० आनन्दविहारटर्मिनलतः मध्याह्ने द्वादशवादने प्रस्थास्यति तथा टूण्डला, गोविन्दपुरी, प्रयागराजजंक्शन, पण्डितदीनदयालउपाध्यायजंक्शन, बक्सर, आरा, दानापुर, पाटलिपुत्र, सोनपुर तथा हाजीपुरजंक्शन इत्येतानि स्थानानि अतिक्रम्य परदिने प्रातः पौनदशवादने मुजफ्फरपुरजंक्शनं प्राप्स्यति।

रेल्वेप्रशासनस्य अनुसारं यात्रिणः रेलयानस्य विस्तृतसमयस्य, विरामस्थानानां आरक्षणस्थितेः च जानकारीं प्राप्तुं राष्ट्रियरेलयानपृच्छाप्रणाली अर्थात् एनटीईएस इत्यस्य उपयोगं कुर्वन्तु अथवा रेल्वेसहायतासङ्ख्यायां १३९ सम्पर्कं कुर्वन्तु इति परामर्शः प्रदत्तः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani