Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ सेप्टेम्बरमासः। केन्द्रीयपर्यावरण-वन-वातावरण-परिवर्तनमन्त्री भूपेन्द्रयादवः अवदत् यत् दिल्ली-राष्ट्रीयराजधानीक्षेत्रे वायु-प्रदूषणस्य समस्यायाः निवारणाय जनानां सहभागिता अत्यन्तम् आवश्यकी अस्ति। सोमवासरे आयोजिते विशेषसंवादे राष्ट्रिय-राजधानीक्षेत्रस्य ६३ नगरानां महापौराः तथा नगरनिकायानां जनप्रतिनिधयः सम्मिलिताः। स्थानीय-निकायैः सह वायुप्रदूषणविषये एषा प्रथमेषु बृहद्संवादेषु एका आसीत्।
यादवः अवदत् यत् प्रदूषणनिवारणे नगरनिकायाः प्रथमं सोपानम् अस्ति। वैज्ञानिक-दत्तांशाधारिताः उपायाः वार्डस्तरपर्यन्तं नेतव्याः। दृढावशिष्ट-प्रबन्धननियमाः, निर्माण-ध्वंसावशिष्ट-प्रबन्धननियमाश्च कठोरतया कार्यान्वितव्याः। धूलिप्रदूषणनिवारणाय मार्गपार्श्वेषु स्थानीयाः शुष्कतासहिष्णवः तृणपादपाः रोपणीयाः। प्लास्टिकप्रयोगः, अवशिष्टदाहः, अवैधोद्योगजनितं प्रदूषणं च निवारयितुं जनप्रतिनिधिभिः अग्रणी भूमिका निर्वोढव्या।
सः अवदत् यत् केन्द्रसर्वकारेण दिल्ली-राष्ट्रीयराजधानीक्षेत्रस्य नगरनिकायैः सह अद्यावधि पञ्चविंशत्यधिकाः समीक्षासभाः आयोजिताः। प्रधानमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वे वायुगुणवत्ताप्रबन्धनायोगः गठितः अस्ति, यः तकनीकीसहयोगं प्रदास्यति। सभायाः अन्ते केन्द्रीयमन्त्री स्वच्छवायोः कृते सर्वान् जनप्रतिनिधीन् शपथं कारितवान्।
Hindusthan Samachar / Divya Ranjan