महिलाविधायकानां सशक्तीकरणेन लोकतन्त्रं सुदृढं भविष्यति - ओमबिरला
नवदिल्ली, ०७ सितम्बरमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला उक्तवान् यत् महिलाविधायकानां महिला-जन-प्रतिनिधीनां च सशक्तीकरणेन लोकतन्त्रं अधिकं सुदृढं भविष्यति। लोकतन्त्रस्य सफलतायै संवादः, सहभागिता विश्वासश्च आवश्यकाः सन्ति। महिलाजनप्रतिनिधिभिः विधायिका
शी इज ए चेंजमेकर’ पहल के तहत फरीदाबाद स्थित ताज सूरजकुंड रिजॉर्ट में ‘महिला जनप्रतिनिधियों के लिए लैंगिक उत्तरदायी शासन’ विषय पर कार्यशाला में


नवदिल्ली, ०७ सितम्बरमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला उक्तवान् यत् महिलाविधायकानां महिला-जन-प्रतिनिधीनां च सशक्तीकरणेन लोकतन्त्रं अधिकं सुदृढं भविष्यति। लोकतन्त्रस्य सफलतायै संवादः, सहभागिता विश्वासश्च आवश्यकाः सन्ति। महिलाजनप्रतिनिधिभिः विधायिका-प्रक्रियायाः, नीतिनिर्माणस्य, विधानस्य वित्तविवरणस्य च सम्यक् ज्ञानं प्राप्य स्वराज्यानां देशस्य च विकासे सक्रियभूमिका निर्वोढव्या।

सः सोमवासरे राष्ट्रियमहिलायोगेन आयोजितायाः द्विदिवसीयायाः क्षमता-निर्माणकार्यशालायाः उद्घाटन-समारोहे सम्बोधनं कुर्वन् एतद् उक्तवान्। फरीदाबादस्थे ताजसूरजकुण्ड-विश्रामगृहे ‘महिलाजनप्रतिनिधीनां कृते लिङ्ग-उत्तरदायिशासनम्’ इति विषये कार्यशाला आयोजिता। अस्यां देशस्य विभिन्नेभ्यः भागेभ्यः शताधिकाः महिलाविधायकाः विधानपरिषदः सदस्याश्च भागं गृहीतवन्तः।

बिरला उक्तवान् यत् महिला नेतृत्वस्य सुदृढीकरणेन शासनव्यवस्थायां जनानाम् अधिकसहभागिता सुनिश्चितं भविष्यति तथा च लोकतान्त्रिकसंस्थाः सुदृढाः भविष्यन्ति। सः महिलाविधायकान् समावेशिशासनस्य सुदृढीकरणाय सार्वजनिकसेवां प्रभावीमाध्यमरूपेण स्वीकरणाय आहूतवान्।

राष्ट्रियमहिलायोगस्य अध्यक्षा विज-यरहाटकरः उक्तवती यत् महिलाविधायकाः केवलं स्वनिर्वाचनक्षेत्राणां प्रतिनिधयः न, अपितु शिक्षा, स्वास्थ्य, अर्थव्यवस्था, प्रौद्योगिकी, सुरक्षा सुशासनं च इत्यादिषु विषयेषु समाजस्य सशक्तस्वराः सन्ति। तया महिलानां संवैधानिकाधिकाराणां विषये जागरूकतां वर्धयितुं तथा च सर्वकारीयकल्याणयोजनानां लाभं प्राप्तुं महिलाः समर्थाः भवेयुः इति आह्वानं कृतम्।

चत्वारि प्राविधिकसत्राणि

कार्यशालायाः प्रथमदिने नेतृत्वस्य, विधायिकाकार्यस्य, सार्वजनिकनीतेः तथा लिङ्ग-उत्तरदायिशासनस्य च सम्बन्धे चत्वारि प्राविधिकसत्राणि आयोजितानि। सत्रेषु महिलाविधायिकाभ्यः शासनस्य जनप्रतिनिधित्वस्य च व्यावहारिकपक्षाणां ज्ञानं प्रदत्तम्। विभिन्नराज्यानां महिला-जनप्रतिनिधिभिः स्वानुभवाः सफल-प्रयत्नाश्च सहभागः कृतः।

कार्यक्रमे विभिन्नराज्यानां मन्त्रिणः, विधानसभा-अध्यक्षा, जनप्रतिनिधयः तथा राष्ट्रियमहिलायोगस्य पदाधिकारिणः उपस्थिताः आसन्। आयोगस्य अनुसारम् एतादृशानां प्रशिक्षणकार्यक्रमाणाम् उद्देश्यं महिलाविधायिकानां क्षमता वर्धयित्वा नीतिनिर्माणे, शासने जनसेवायां च तासां प्रभावीभूमिकां सुदृढां कर्तुम् अस्ति।

Hindusthan Samachar / Divya Ranjan