छत्तीसगढोच्चन्यायालयस्य नूतनः मुख्यन्यायाधीशः कृष्णराममहापात्रः अद्य पदस्य गोपनीयतायाश्च शपथं ग्रहीष्यति
रायपुरम्, ०७ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढोच्चन्यायालयस्य नवनियुक्तः मुख्यन्यायाधीशः न्यायमूर्तिः कृष्णराम-महापात्रः अद्य पदस्य गोपनीयतायाश्च शपथं ग्रहीष्यति। राज्यपालः रमेन्-डेका तम् शपथं ग्राहयिष्यति। शपथग्रहणसमारोहः मध्याह्ने सार्धैकवादने रा
जस्टिस कृष्ण राम महापात्र


रायपुरम्, ०७ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढोच्चन्यायालयस्य नवनियुक्तः मुख्यन्यायाधीशः न्यायमूर्तिः कृष्णराम-महापात्रः अद्य पदस्य गोपनीयतायाश्च शपथं ग्रहीष्यति। राज्यपालः रमेन्-डेका तम् शपथं ग्राहयिष्यति।

शपथग्रहणसमारोहः मध्याह्ने सार्धैकवादने रायपुरस्थितस्य लोकभवनस्य छत्तीसगढ-मण्डपम-सभागारे आयोजयिष्यते। समा-रोहस्य अवसरे प्रदेशस्य अनेके प्रमुखाः जनप्रतिनिधयः अधिकारिणश्च उपस्थिताः भविष्यन्ति इति सम्भावना अस्ति।

पञ्चम-सेप्टेम्बर-दिनाङ्के निर्गतायाः अधिसूचनायाः अनुसारम् ओडिशोच्च-न्यायालयस्य वरिष्ठन्यायाधीशः न्याय-मूर्तिः कृष्णराममहापात्रः छत्तीसगढो-च्चन्यायालयस्य नूतनः मुख्यन्यायाधीशः नियुक्तः अस्ति।

न्यायमूर्तिः कृष्णराममहापात्रः १९८८ तमस्य वर्षस्य फेब्रुवरी-मासस्य सप्तम्यां तिथौ ओडिशाराज्यस्य बार-परिषदः पुरतः अधिवक्तृरूपेण पञ्जीकरणं कृतवान्। तस्य विधेः विभिन्नासु शाखासु प्रायः षड्विंशतिवर्षाणाम् अनुभवः अस्ति। सः १९८८ तमस्य वर्षस्य फेब्रुवरी-मासात् ओडिशाराज्य-बार-परिषदः पञ्जीकृत्य दीर्घकालं यावत् दीवानी, आपराधिकेषु, संवैधानिकेषु च प्रकरणेषु अधिवक्तृरूपेण कार्यं कृतवान्। २०१५ तमस्य वर्षस्य एप्रिल-मासस्य सप्तदशे दिने सः ओडिशोच्चन्यायालयस्य न्यायाधीशरूपेण नियुक्तः अभवत्।

Hindusthan Samachar / Divya Ranjan